अथ निर्णीतकृत्यम्
तत्र नारदः [२.४१] ।
स्वयम् अभ्युपपन्नो ऽपि सुचर्यावसितो ऽपि सन् ।
क्रियावसन्नो ऽप्य् अर्हेत् तु परं सभ्यावधारणम् ॥
सभ्यैर् एव कृता पश्चाद् राज्ञा शास्यः स्वशास्त्रवत् ।
“स्वयम् अभ्युपपन्नः” स्वयम् अङ्गीकृतपराजयः । “सुचर्यावसितः” सुचेत्ष्टया वैवर्ण्यस्वेदकम्पादिकया पराजितत्वेन ज्ञातः । “क्रियावसन्नः” क्रियया साक्षिदिव्यादिकया प्राप्तावसादः । “परं सभ्यावधारणम्” अनन्तरं सभ्यानाम् एकस्थानाम् अनेनावसादनेन पराजित इति कीर्तनम् ।
याज्ञवल्क्यः [२.११] ।
निर्णयं भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगे द्विगुणम् अभियोगाद् धनं वहेत् ॥
[२६४] मनुः [८.५१, ५९] ।
अर्थे ऽपव्ययमानं तु करणेन विभावितम् ।
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥
यो यावन् निह्नुवीतार्थं मिथ्यां यावति वादयेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥
“अपव्ययमानम्” अपनिह्नुवानम् । “करणेन” लिखितादिना । “यो यावत् तौ” इति । यो यावन्तम् अपजानीते अधमर्णः, मिथ्यां वा यावति धने अभियुञ्जीत ताव् उभाव् अप्य् उत्तमर्णाव् आशयदोषेण विवादवृत्तौ द्विगुणं दण्डं दाप्याव् इत्य् अर्थः । आशयदोषव्यतिरेकेण तु दारिद्र्यविस्मरणादिनापह्नवविषये दण्डलेशं च शक्तितः इत्य् अवगन्तव्यम् ।
व्यासः ।
निह्नवे तु यदा वादी स्वयं तत् प्रतिपद्यते ।
ज्ञेया सा प्रतिपत्तिस् तु तस्यार्धविनयः स्मृतः ॥
नारदः [२.३७] ।
मिथ्याभियोगिनो ये स्युः द्विजानां शूद्रयोनयः ।
तेषां जिह्वां समुत्कृत्य राजा शूले निवेशयेत् ॥
[२६५] याज्ञवल्क्यः [२.२०] ।
निह्नुते लिखितं नैकं एकदेशविभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥
यदा नैकं सुवर्णरजत[ताम्रादिलिखितम् अभियुक्तस् सन् “निह्नुते” पुनर् अपि तदैकदेशे सुवर्णादौ शास्त्रादिभिः वादी “विभावितः” अङ्गीकारितः उद्धरेत् राज्ञा सर्वान् रजताद्यर्थान् दाप्यः । तत्रापि] “न ग्राह्यस् त्व् अनिवेदितः” पूर्वोद्देशेन देय्म् इति यद्य् अभियोक्त्रा पूर्वभाषाकाले ऽनुपनुयस्तो ऽर्थः एकदेशविभावितत्वे ऽप्य् अभियोक्ता न ग्राहयितव्य इत्य् अर्थः ।
नारदः ।
अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं यद् अभियुज्यते ॥
याज्ञवल्क्यः [२.१८] ।
सपणश् चेद् विवादः स्यात् तद्गृहीतं तु दापयेत् ।
स दण्डं द्विगुणं चैव धनिने धनम् एव च ॥
बृहस्पतिः [९.२५] ।
अपराधानुरूपश् च दण्डो ऽयं परिकल्पितः ।
[२६६]