अथ निर्णयबलाबलम्
नारदः [१.१०] ।
धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वबाधकः ॥
“उत्तरः पूर्वबाधकः” इति । धर्मव्यवहारचरित्रराजशासनेषु उतत्त्रोत्तरः पूर्वस्य बाधक इत्य् अर्थः ।
बृहस्पतिः [१.१९] ।
शास्त्रं केवलम् आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस् तेनावहीयते ॥
कात्यायनः [३९] ।
युक्तियुक्तं तु कार्यं स्याद् दिव्यं यत्र विवर्जितम् ।
धर्मस् तु व्यवहारेण बाध्यते तत्र नान्यथा ॥
बृहस्पतिः [१.२०] ।
देशस्थित्यानुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस् तत्र व्यवहारस् तु बाध्यते ॥
“नैगमाः” पौराः वणिजः । “अनुमानेन नैगमानुमतेन” इत्य् संबन्धः ।
कात्यायनः [४०–४१] ।
प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।
विरुद्धं नियतं प्राहुस् तं धर्मं न विचालयेत् ॥
[२६२] > निर्णयं तु यदा कुर्यात् तेन धर्मेण पार्थिवः ।
व्यवहारश् चरित्रेण तदा तेनैव बाध्यते ॥
“तेन धर्मेण” देशाचाररूपेण ।
बृहस्पतिः [१.२१] ।
विहाय चरिताचारं यत् तु कुर्यात् पुनर् नृपः ।
निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तथा ॥
“चरिताचारम्” पूर्वपूर्वाचरितम् आचारम् ।
कात्यायनः [४२, ४३] ।
विरुद्धं न्यायतो यत् तु चरित्रं कल्प्यते नृपैः ।
एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥
अनेन विधिना प्रोक्तं बाधकं यद् यद् उत्तरम् ।
अन्यथा बाधनं यत्र तत्र धर्मो विहन्यते ॥
इति निर्णयप्रकारः ।
[२६३]