अथ निर्णयप्रकारः
तत्र व्यासः ।
प्रमाणैर् हेतुचरितैः शपथेन नृपाज्ञया ।
वादिसंप्रतिपत्या वा निर्णयो ऽष्टविधः स्मृतः ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर् हेतुस् तर्कश् चेति मनीषिणः ॥
दशेस्थितिः पूर्वकृता चरितं समुदाहृतम् ।
अर्थानुरूपाः शपथाः स्मृताः सत्यधटादयः ॥
तेषाम् अभावे राजाज्ञा निर्णयं तद् विदुर् बुधाः ।
अनुमानम् इति । तर्को ऽनुमानं निर्णयहेतुर् इति मन्यन्त इत्य् अर्थः ।
बृहस्पतिः [९.१] ।
धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारो ऽभिहितः संदिग्धे वस्तुनिर्णयः ॥
एकैको द्विविधः प्रोक्तः क्रियाभेदान् महर्षिभिः ।
सम्यग् विचार्य कार्यं तु युक्त्या संपरिकल्पितम् ॥
परीक्षितं तु शपथैः स ज्ञेयो धर्मनिर्णयः ।
प्रतिवादी प्रपद्येत यत्र धर्मः स निर्णयः ॥
दिव्यैर् विशोधितः सम्यक् द्वितीयः समुदाहृतः ।
[२५९] कात्यायनः [३६] ।
स्मृतिशास्त्रं तु यत् किंचित् कथितं धर्मसाधकैः ।
कार्याणां निर्णयार्थेषु व्यवहारः स्मृतो हि सः ॥
“स्मृतिशास्त्र“शब्देनात्र स्मृतिशास्त्रोक्तसाक्ष्यादीनि प्रमाणान्य् उच्यन्ते ।
बृहस्पतिः [९.५] ।
प्रमाणनिश्चितो यस् तु व्यवहारः स उच्यते ।
वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥
“वाक्छलानुत्तरत्वेन” वाक्छलत्वेन निश्चितो अनुत्तरत्वेन च निश्चितो द्वितीयो व्यवहार इत्य् अर्थः ।
कात्यायनः [३७] ।
यद् यद् आचर्यते येन धर्म्यं वाधर्म्यम् एव वा ।
देशस्याचरणान् नित्यं चरित्रं तत् परिकीर्तितम् ॥
बृहस्पतिः [९.६] ।
अनुमानेन निर्णीतं चरित्रम् इति कथ्यते ।
देशस्थित्या द्वितीयस् तु शास्त्रविद्भिर् उदाहृतः ॥
कात्यायनः [३८, द्वितीये] ।
संदिग्धा येन साध्यन्ते निश्चितं शास्त्रतो भृगुः ।
तेषां नृपः प्रमाणं स्यात् सर्वस्य हि नृपः प्रभुः ॥
न्यायशास्त्राविरोधेन देशदृष्टैस् तथैव च ।
यं धर्म्यं स्थापयेद् राजा न्याय्यं तद् राजशासनम् ॥
[२६०] > धर्मं च व्यवहारं च चरित्रं वाविलोपयन् ।
स्थित्यैतत् स्थापयेद् राजा धर्म्यं तद् राजशासनम् ॥
“अविलोपयन्” अपरित्यजन्न् अपि ।
बृहस्पतिः [९.७] ।
प्रमाणसहिताद्यस् तु राजाज्ञा निर्णयः स्मृतः ।
शास्त्रसभ्यविरोधेन तथान्यः संप्रकीर्तितः ॥
“प्रमाणसहिता राजाज्ञा आद्यो निर्णय” इति योजना । “सभ्यशास्त्रविरोधे” सभ्यानां शास्त्राणां च परस्परविप्रतिपत्तौ ।
नारदः [१.११] ।
तत्र सत्ये स्थितो धर्मो व्यवहारश् च साक्षिषु ।
चरितं पुस्तकरणे राजाज्ञायां तु शासनम् ॥
बृहस्पतिः ।
यत्रैवं वेत्ति नृपतिः निर्णयं तु चतुर्विधम् ।
सो ऽस्मिंश् लोके यशः प्राप्य याति शक्रलोकताम् ॥
[२६१]