अथ शपथविधिः
तत्र मनुः [८.११०] ।
महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः ।
वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ॥
नारदः [४.२४३–४४] ।
शपथा ह्य् अपि देवानाम् ऋषीणां च महात्मनाम् ।
वसिष्ठः शपथं शेपे यातुधाने तु शब्दितः ॥
महर्षयस् तथेन्द्राद्याः प्रस्तरार्थे निबोधिताः ।
शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥
विष्णुः [९.४–१४]- “सर्वेष्व् अप्य् अर्थजातेषु मूल्यं कनकं प्रकल्पयेत् । तच् च कृष्णलोने शूद्रं दूर्वाकरं शापयेत् । द्विकृष्णलोने तिलकरम् । त्रिक्ष्ट्णलोने रजतकरम् । चतुःकृष्णलोने सुवर्णकरम् । पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । सुवर्णार्धोने कोशो देयः शूद्रस्य । ततः परं यथार्हं धटाग्न्युदकविषाणाम् अन्यतमम् । [२५६] द्विगुणार्थे यथाभिहिता समयक्रिया वैश्यस्य । त्रिगुणार्थे राजन्यस्य । चतुर्गुणार्थे ब्राह्मणस्य” ।
“कृणलोने” कृष्णलावरे । एवं द्विकृष्णलोन इत्याद्य् अपि बोद्धव्यम् ।
मनुः [८.११३–१४] ।
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
पुत्रदारस्य चाप्य् एनं शिरांसि स्पर्शयेत् पृथङ् ।
बृहस्पतिः [८.३३–३४] ।
सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादांस् तु पुत्रदारशिरांसि च ॥
एते तु शपथाः प्रोक्ताः स्वल्पे ऽर्थे सुकराः सदा ।
साहसेष्व् अभिशापेषु दिव्याण्य् आहुर् विशोधनम् ॥
नारदः [४.२४८–२५०] ।
सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश् च दत्तानि सुकृतानि च ॥
इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे ।
पातकेष्व् अभिशापे च विधिर् दिव्येषु कीर्तितः ॥
शङ्खलिखितौ- “इष्टापूर्तप्रदानम् अन्यांश् च शपथान् कारयेत्” ।
[२५७] मनुः [८.११५] ।
यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥
कात्यायनः [४६३] ।
आ चतुर्दशकालाद् अह्नो यस्य नो राजदैवकम् ।
व्यसनंजायते घोरं स ज्ञेयः शपथे शुचिः ॥
मनुः [८.१११–१२] ।
न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥
यमः ।
कृत्वा मृषा तु शपथं कीटस्य वधसंयुतम् ।
अनृतेन तु युज्येत वधेन च तथा नरः ॥
तस्मान् न मिथाशपथं नरः कुर्याद् यथेप्सितम् ॥
इति भट्टहृदयधरात्मजमहासान्धिव्ग्रहिक-
श्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ
व्यवहारकाण्दे क्रियापादः ॥
[२५८]