अथ धर्मजविधिः
तत्र बृहस्पतिः [८.८२–८५] ।
पत्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिकैर् मन्त्रैर् गायत्र्याद्यैश् च सामभिः ॥
आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलषितौ ।
ततः कुम्भात् पिण्डम् एकं प्रगृह्णीताविलम्बितः ॥
धर्म गृहीते शुद्धः स्यात् संपूज्यश् च परीक्षकैः ।
“जीवदानादिकैः” ऽमा प्रगामपथो वयम्" इत्यादिमन्त्रैः ।
[२५५]