४६ फालविधिः

अथ फालविधिः

तत्र बृहस्पतिः [८.७९–८०] ।

आयसं द्वादशपलं घटितं फालम् उच्यते ।
अष्टाङ्गुलं भवेद् दीर्घं चतुर्ङ्गुलविस्तरम् ॥
अग्निवर्णं तु तच् चोरो जिह्वया लेहयेत् सकृत् ।
न दग्धश् चेच् छुद्धिम् इयाद् अन्यथा तु स हीयते ॥

[२५४]