अथ फालविधिः तत्र बृहस्पतिः [८.७९–८०] । आयसं द्वादशपलं घटितं फालम् उच्यते । अष्टाङ्गुलं भवेद् दीर्घं चतुर्ङ्गुलविस्तरम् ॥ अग्निवर्णं तु तच् चोरो जिह्वया लेहयेत् सकृत् । न दग्धश् चेच् छुद्धिम् इयाद् अन्यथा तु स हीयते ॥ [२५४]