४५ तप्तमाषकविधिः

अथ तप्तमाषकविधिः

तत्र पितामहः ।

तप्तमाषस्य वक्ष्यामि विधिम् उद्धरेणे शुभम् ।
कारयेद् आयसं पात्रं ताम्रं वा षोडशाङ्गुलम् ॥
चतुरङ्गुलखातं मृन्मयं वापि मण्डलम् ।
पूरयेद् घृततैलाभ्यां विंशत्या वा पलैस् ततः ॥
सुतप्ते निक्षिपेत् तत्र सुवर्णस्य तु माषकम् ।
अङ्गुष्ठाङ्गुलियोगेन तप्तमाषं समुद्धरेत् ॥

“मण्डलम्” वर्तुलम् ।

बृहस्पतिः [८.७२] ।

समुद्धरेत् तैलघृतात् सुतपात् तप्तमाषकम् ।
अङ्गुष्ठाङ्गुलियोगेन सत्यम् आमन्त्र्य वीतभीः ॥

“सत्यम् आमन्त्र्य” ऽएह्य् एहि भगवन् धर्म" इत्यादिमन्त्रेण धर्मं संशोध्य ।

पितामह-बृहस्पती ।

कराग्रं न धुनेद् यस् तु विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण पितामहवचो यथा ॥

कालिकापुराणे ।

न धुनेद् यः कराग्रं तु यस्य रक्तं न जायते ।
विस्फोटाद्यैस् तथा दोषैः स शुद्धो यस्य चोज्झितम् ॥

[२५३]