४४ तण्डुलविधिः

अथ तण्डुलविधिः

तत्र पितामहः ।

तण्डुलानां प्रवक्ष्यामि विधिं भक्षणवर्जने ।
शूद्रे तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥
तण्डुलान् कारयेच् छुक्लान् शालेर् नायस्य कस्यचित् ।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
प्रभाते कारिणो देयो आदित्याभिमुखस्य तु ॥
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेद् दिवा ।
भूर्यस्यैव तु नान्यस्य अभावे पिप्पलस्य च ॥

[२५१] कात्यायनः [४५३] ।

देवतास्नानपानीयदिग्धतण्डुलभक्षणे ।
शुद्धनिष्ठीवनाच् छुद्धो नियम्यो ऽशुचिर् अन्यथा ॥

बृहस्पतिः [८.७०] ।

सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच् छुचिः ।
शुद्धः स्याच् छुक्लनिष्ठीवे रक्तमिश्रे च दोषभाक् ॥

बृहस्पति-पितामहौ ।

शोणितं दृश्यते यस्य हनुजालं च सीदति ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥

“हनुजालम्” उत्तराधरवामदक्षिणहनुसमूहः ।

[२५२]