४३ कोशविधिः

अथ कोशविधिः

तत्र नारदः [४.३२७–२८] ।

अतः परं प्रवक्ष्यामि कोशस्य विधिम् उत्तमम् ।
शास्त्रविद्भिर् यथा प्रोक्तं सर्वकालाविरोधिनम् ॥
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशूकस्याव्यसिनिनः कोशपानं विधीयते ॥
इच्छतः श्रद्दधानस्य देवब्राह्मणसंनिधौ ।

“सशूको” ऽत्र सत्येन दिव्यकरणे निःशङ्कवान् ।

पितामहः ।

भक्तो यो यस्य देवस्य पाययेत् तस्य तज् जलम् ।
समभावे तु देवानाम् आदित्यस्य च पाययेत् ॥
दुर्गायाः पाययेच् चोरान् ये च शस्त्रोपजीविनः ।
भास्करस्य च यत् तोयं ब्राह्मणं तन् न पाययेत् ॥

[२४६] > दुर्गायाः स्नापयेच् छूलम् आदित्यस्य च मण्डलम् ।

इतरेषां तु देवानां स्नापयेद् आयुधानि तु ॥
प्राङ्मुखं कारिणं कृत्वा पाययत् प्रसृतित्रयम् ।
पूर्वोक्तेन विधानेन स्नातम् आर्द्रपटं शुचिम् ॥

“समभावे” देवताविषयकभक्तिसाम्य इत्य् अर्थः ।

बृहस्पतिः [८.६६] ।

यद्भक्तः सो ऽभियुक्तः स्यात् तद् एवायुधमण्डलम् ।
प्रक्षाल्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥

विष्णुः [१४.२–३]- “उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात् प्रसृतित्रयं पिबेत् । इदं मया न कृतम् इति व्याहरन् देवताभिमुखः” ।

नारदः ।

अर्चयित्वा तु तं देवं प्रक्षाल्य सलिलेन च ।
एनश् च श्रावयित्वा तु पाययेत् (?) प्रसृतित्रयम् ॥

कात्यायनः [४५२] ।

स्वल्पे ऽपराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥

पाय्यः” पाययितव्यः । “नियम्यो” दण्दयितव्यः ।

[२४७] विष्णुः [१४.४] ।

यस्य पश्येद् द्विसप्ताहात् त्रिसप्ताहाद् अथापि वा ।
रोगो ऽग्निर् ज्ञातिमरणं राजातङ्कम् अथापि वा ॥
तम् अशुद्धं विजानीयात् तथा शुद्धं विपर्यये ।

पितामहः ।

त्रिरात्रात् सप्तरात्राद् वा त्रिसप्ताहाद् अथापि वा ।
वैकृतं यस्य दृश्येत पापकृ स तु मानवः ॥
तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं सैव तस्य विभावना ॥

कात्यायनः [४५६–५८] ।

अथ देवविसंवादात् त्रिसप्ताहात् तु दापयेत् ।
अभियुक्तं प्रयत्नेन तम् अर्थं दण्डम् एव च ॥
तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् ।
रोगो ऽग्निर् ज्ञातिमरणं ऋणं दद्याद् दमं च सः ॥

[२४८] > ज्वरातिसारविस्फोटाः शूलादिपरिपीडनम् ।

नेत्ररुग्गलरोगश् च तथोन्मादः प्रजायते ॥
शिरोरुग् भुजभङ्गश् च दैविकव्याधयो नृणाम् ।

दैवविसंवादः” दैवकृतो रोगज्ञातिमरणादिरूपो विरोधः ।

नारदः [४.३३१] ।

ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं सुमहद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥

याज्ञवल्क्यः [२.११३] ।

अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स विशुद्धो न संशयः ॥

[२४९]व्यसनम्” आपत् । “घोरम्” अतिपीडाकरम् ।

बृहस्पतिः [८.६५] ।

सप्ताहाद् वा द्विसप्ताहाद् यस्यार्तिर् न प्रजायते ।
पुत्रदारधनानां च विशुद्धः स्यान् न संशयः ॥

अत्र च द्व्यहसप्ताहत्रिसप्ताहप्रतीक्षणे व्यवस्था देशकालविषयतारतम्यापेक्षयेत्य् अवगन्तव्या ।

कात्यायनः [४५४] ।

अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डम् अभियोगं तु दापयेद् अभियोजकम् ॥

विष्णुः [१४.५]

दिव्येन शुद्धं पुरुषं सत्कुर्याद् धार्मिको नृपः ।

नारदः [४.३३३] ।

यथोक्तेन विधानेन पञ्च दिव्यानि कारयेत् ।
तत्र राजाभिशस्तानां प्रेत्य चेह च नन्दति ॥

[२५०]