अथ विषविधिः
तत्र नारदः [४.३१८–२१] ।
अतः परं प्रव्क्ष्यामि विषस्य विधिम् उत्तमम् ।
यस्मिन् काले यदा देयं यादृशं च प्रकीर्तितम् ॥
यावन्मात्रं समुद्दिष्टं धर्मतत्त्वार्थ्दर्शिभिः ।
तुअलयित्वा शरत्काले देयम् एतद् धिमागमे ॥
नापराह्णे न मध्याह्ने न संध्यायां च धर्मवित् ।
शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ॥
भग्नं च धारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥
पितामहः ।
चारितान्य् अतिजीर्णानि कृत्रिमाणि तथैव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥
ओषधीर् मन्त्रयोगांश् च मणीन् अन्यविषापहान् ।
कर्तुः शरीरसंस्थांश् च गूढान् अन्यान् परीक्षयेत् ॥
[२४१] कात्यायनः [४४६–४९] ।
अजशङ्गनिभं श्यामं सुपीतं शृङ्गसंभवम् ।
भङ्गे च शृङ्गवेराभं ख्यातं तच् छृङ्गिणां विषम् ॥
रक्तं तद् असितं कुर्यात् कठिनं चैव तत्क्षणात् ।
अनेन विधिना ज्ञेयं विषं दिव्यविशारदैः ॥
वत्सनाभिनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशृङ्गाकृतिर् भङ्गे विद्यात् तद् वत्सनाभकम् ॥
मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यम् एवं समाख्यातं लक्षणं धर्मसाधकैः ॥
नारदः [३.३२२] ।
शार्ङ्गं हैमवतं शस्तं वर्णगन्धरसान्वितम् ।
अकृत्रिमम् असंगूढमन्त्रोपहतं च यत् ॥
पितामहः ।
यवाः सप्त प्रदातव्याः शुद्धिहेतोर् असंशयम् ।
शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥
नारदः [४.३२४] ।
वर्षासु षड्यवा मात्रा ग्रीष्मे पञ्च यवाः स्मृताः ।
हेमन्ते वा सप्त यवाः शरद्य् अल्पास् ततो ऽपि हि ॥
[२४२] कात्यायनः [४५०] ।
पूर्वाह्णे शीतले देशे विषं दद्यात् तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥
शङ्ख-नारदौ ।
दद्याद् विषं सोपवासः देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥
द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा दद्याद् विप्रः समाहितः ॥
पितामहः ।
दीयमानं करे कृत्वा विषं तु परिशोधयेत् ।
विष त्वं ब्राहणा [ब्रह्मणा?] सृष्टः परीक्षार्थं दुरात्मनाम् ॥
पापेषु दर्शयामानं शुद्धानाम् अमृती भव ।
विष्णुः [१३.६–७] ।
विषत्वाद् विषमत्वाच् च क्रूरत्वात् सर्वदेहिनाम् ।
त्वम् एव विष जानीषे न विदुर् यानि मानवाः ॥
[२४३] > व्यवहाराभिशव्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥
नारदः [४.३२५] ।
विष त्वं ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः ।
शोधयैनं नरं पापात् सत्येनास्याम्र्तो भव ॥
याज्ञवल्क्यः [२.११०–११] ।
विष त्वं ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः ।
त्रायस्वास्माद् अभीशपात् सत्येन भव मे ऽमृतम् ॥
एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ॥
नारदः [४.३२६] ।
छायानिवेशितो रक्ष्यो दिनशेषम् अभोजनः ।
विषवेगक्लमातीतः शुद्धो ऽसौ मनुर् अब्रवीत् ।
पितामहः ।
भक्षिते तु यदा स्वस्थो मूर्च्छाच्छर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते तं शुद्धम् इति निर्दिशेत्
[२४४] विष्णुः [१२.५] ।
विषं वेगक्रमापेतं सुखेन यदि जीर्यते ।
विसुद्धं तम् इति ज्ञात्वा दिवसान्ते विसर्जयेत् ।
बृहस्पतिः [८.६४] ।
विधिदत्तं विषं येन जीर्णं मन्त्रौषधैर् विना ।
स शुद्धः स्याद् अन्यथा तु दण्ड्यो दाप्यश् च तद् धनम् ॥
पितामहः ।
त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्ठितम् ।
कुहकाशङ्कया राजा धारयेद् दिव्यकारिणम् ॥
[२४५]