४१ तोयविधिः

अथ तोयविधिः

तत्र पितामहः ।

तोयस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।
मण्डलं पुष्पधूपाभ्यां कारयेत् तु विचक्षणः ॥
शरान् संपूजयेद् भक्त्या वैष्णवं च धनुस् तथा ।
मण्डपे पुष्पधूपैश् च ततः कर्म समाचरेत् ॥

कात्यायनः [४४२] ।

शरांस् तान् आयसैर् अग्रैः प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता च सुदृढं क्षिपेत् ॥

पितामहः ।

क्षेप्ता च क्षत्रियः कार्यस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासस् तथा शुचिः ॥
इषून् न प्रक्षिपेद् विद्वान् मारुते चातिधावति ।
विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥

नारदः [४.३०७] ।

क्रूरं धनुः सप्तशतं मध्यमं षट्च्छतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर् विधिः ॥

[२३५] धनुः सप्तशतम् इति । यद् धनुः बद्धज्यं सप्तभिर् पलशतैः शरपूर्णपर्यन्तं नमति तत् तथोच्यते । एवं षट्च्छतम् इत्याद्य् अपि ।

पितामहः ।

मध्यमेन तु चापेन प्रक्षिपेत् तु शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
तेषां च प्रेषितानां तु शराणां शास्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥
शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।
सर्पन् सर्पन् शरो याति दूराद् दूरतरं तु सः ॥

कात्यायनः [४४३] ।

क्षिप्तैस् तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्व् आगमः कार्यः पुमान् अन्यो जले विशेत् ॥

क्षिप्तैः शरैः ।

विष्णुः [१२-३–४] । “[अभिमन्त्रितम् अम्भः प्रविशेत् ।] तत्समकालं च नातिक्रूरमृदुना धनुषा पुरुषो ऽपरः शरमोक्षं कुर्यात्” ।

बृहस्पतिः [८.६२] ।

अप्सु प्रविश्य पुरुषं प्रेषयेत् सायकत्रयम् ।

[२३६] पितामहः ।

स्थिरे तोये निमज्जेत् तु न ग्राहिणि न चाल्पके ।
तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेत् तोयं शीघ्रवेगनदीषु च ॥

“ग्राहिणि” ग्राहाख्यप्राणियुक्ते ।

नारदः [४.३०५] ।

नदीषु नातिवेगासु तटागेषु सरःसु च ।
ह्रदेषु स्थिरतोयेषु कुर्यात् पुंसां निमज्जनम् ॥

विष्णुः [१२.२–३]- “पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्जिते ऽम्भसि । तत्रानाभिमग्नस्यारागद्वेषिणः पुरुषस्यान्यस्य जानुनी गृहीत्वाभिमन्त्रितम् अम्भः प्रविशेत्” ।

नारदः [४.३०८] ।

ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः ।
नाभिमात्रजले स्थाप्यः पुरुषः स्थाणुवद् बली ॥
तस्योरुं प्रतिगृह्याथ निमज्जेद् अभिशापवान् ।

[२३७] याज्ञवल्क्यः [२.१०८] ।

सत्येन माभिरक्षव वरुणेत्य् अभिशाप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरुं जलं विशेत् ॥

“अभिशाप्य” शपथं कारयित्वा । “कम्” पानीयम् ।

विष्णुः [१२.७–८] ।

त्वम् अम्भः सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ।
त्वम् एवाम्भो विजानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषस् त्वयि मज्जति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥

पितामहः ।

तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेस् त्वं कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ।

नारदः [४.३१६–१७] ।

सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।
अद्भ्यश् चाग्निर् अभूद् यस्मात् तस्मात् तोये विशेषतः ॥
क्रियते धर्मतत्त्वज्ञैर् दूषितानां विशोधनम् ।
तस्मात् सत्येन भगवन् जलेश त्रातुम् अर्हसि ॥

[२३८] कालिकापुराणे ।

पाह्य् एनं वरुण त्वं हि अस्माद् एवाभिशापतः ।
शुद्धश् चेद् अतिकारुण्याद् अभिमन्त्र्य जले क्षिपेत् ॥
नाभिमात्रोदकस्थस्य पुरुषस्योरुं प्रगृह्य वै ।
प्रणम्य देवताम् इष्टां तस्मिन् मग्नो जले विशेत् ॥

शङ्खलिखितौ- “सद् असच् च त्वम् एव वरुण उभयोः प्रतितिष्ठतः । त्वयि सत्यं त्व् इदं देव, वरुण, त्वम् एव तद् ब्रूहि वरेण्यं तद् आदिशस्व” इति ।

पितामह-नारदौ ।

शरप्रक्षेपणस्थानाद् युवा जवसमन्वितः ।
गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥
मधयमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ।
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ॥
आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥

बृहस्पतिः [८.६१] ।

आनीते मध्यमे चापे मग्नाङ्गः शुचिताम् इयात् ।

[२३९] पितामह-नारदौ ।

अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शनात् ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥

कात्यायनः [४४४-४५] ।

शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥
निमज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिना नरः ।
पुनस् तत्र निमज्ज्येत् स देशचिह्नविभावितः ॥

[२४०]