४० — अथाग्निविधिः
तत्र बृहस्पतिः [पितामहः] ।
अग्नेर् विधिं प्रवक्ष्यामि यथावच् छास्त्रचोदितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ॥
आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्व् इन्द्रदैवत्यं षष्ठं कौबेरम् उच्यते ।
सप्तमं सोमदैवत्यम् अष्टमं सर्वदैवतम् ॥
पुरस्तान् नवमं यत् तु तत् महापार्थिवं विदुः ।
गोमयेन कृतानि स्युर् अद्भिः पर्युक्षितानि च ॥
द्वात्रिंशदङ्गुलान्य् आहुर् मण्डलान् मण्डलान्तरम् ।
कर्तुः समपदं कार्यं मण्डलं तु प्रमाणतः ॥
“महत्” पूर्वमण्डलेभ्यो ऽधिकपरिमाणम् । “पार्थिवम्” पृथिवीदेवताकम् ।
[२२५] नारदः [४.२८५–८६, २९९] ।
अतः परं प्रवक्ष्यामि विधिम् अग्नेस् तथोत्तमम् ।
द्वात्रिंशदङ्गुलान्य् आहुर् मण्डलान् मण्डलान्तरम् ॥
अष्टभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ।
चतुर्विंशतिर् आख्याता भूमेस् तु परिकल्पना ॥
मण्डलस्य् प्रमाणं तु कुर्यात् तत्पदसंमितम् ।
[न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् स्थापयेत् पदम् ॥]
प्रथमान् मण्डलाद् अवरं च द्वात्रिंशदङ्गुलपरिमितं मण्डलं तदतिरिक्तं वा मण्डलान्तरम् अप्य् एवं कार्यम् । एवं गम्यभूमेः सप्तभिर् मण्डलैर् अन्तरालं शतद्वयं चतुर्विंशत्यधिकं संपद्यते ।
याज्ञवल्क्यः [२.१०६] ।
षोडशाङ्गुलकं ज्ञेयं मण्डलान् मण्डलान्तरम् ।
[२२६] पितामहः ।
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ।
विन्यसेत् तु पदं कर्ता तेषु नित्यम् इति स्थितिः ॥
हारीतः ।
प्राङ्मुखस् तत्र तिष्ठेच् च प्रसारितकराङ्गुलिः ।
आर्द्रवासाः शुचिश् चैव शिरस्य् आरोप्य पत्रकम् ॥
पितामहः ।
पश्चिमे मण्डले तिष्ठेत् प्राङ्मुखः प्राञ्जलिः शुचिः ।
लक्षयेयुः क्षतादीनि हस्तयोस् तस्य कारिणः ॥
विष्णुः [११.२०] ।
करौ प्रमर्दितव्रीहेस् तस्यादाव् एव लक्षयेत् ।
नारदः [४.३०१] ।
हस्तक्षतेषु सर्वेषु कुर्याद् धसपदानि (?) तु ।
तान्य् एव पुनर् आलक्षेत् तद्धस्तौ बिन्दुचित्रितौ ॥
[२२७] तथा [पितामहः] ।
सप्ताश्वत्थस्य पत्राणि शमीपत्राक्षतानि च ।
हस्तयोर् निक्षिपेत् तस्य तन्तून् सूत्रस्य सप्त च ॥
पिप्पलाज् जायते ह्य् अग्निः पिप्पलो वृक्षराट् स्मृतः ।
ततस् तस्य पलाशानि नियोज्यानि मनीषिभिः ॥
अंस्रिहीनं समं कृत्वा अष्टाङ्गुलमयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥
“अंस्रिहीनम्” कोणरहितम् ।
नारदः [२७७–२९५??] ।
जात्यैव लोहकारो यः कुशलश् चापि कर्मणि ।
दृष्टप्रयोगश् चैवाग्नौ तेनाग्नौ तं तु तापयेत् ॥
अग्निवर्णम् अयःपिण्डं सुस्फुलिङ्गं सुरक्तिकम् ।
पञ्चाशत्पलिकं भूयः कारयित्वा शुचिर् द्विजः ॥
तृतीयतापतप्तं तं ब्रूयात् सत्यपुरस्कृतः ।
शृण्विमं मानवं धर्मं लोकपालैर् अधिष्ठितम् ॥
[२२८]
त्वम् अग्ने सर्वदेवानां पवित्रं परमं सुखम् ।
त्वम् एव सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ॥
सत्यान्र्ते च जिह्वायास् त्वत्तः समुपलक्ष्यते ।
वेदादिभिर् इदं प्रोक्तं नान्यथा कर्तुम् अर्हसि ॥
अनेनासाव् इदं प्रोक्तं मिथ्या चेदम् असौ वदेत् ।
सर्वथा च यथा मिथ्या तथाग्निं धारयाम्य् अहम् ॥
स एष त्वां धारयति सत्येनानेन मानवः ।
सत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन ॥
मृषावाक्यस्य पापस्य दह हस्तौ च शापितः ।
अमुम् अर्थं च पत्रस्थम् अभियुक्तं यथार्थतः ॥
संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयं यथाक्रमम् ।
पितामहः ।
तापयित्वा ततः पश्चाद् अग्निम् आवाहयेच् छुचिः ।
[आवाहनन्तु देवानां कृत्वा पूर्वं विधानवित् ॥]
त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ॥
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ।
उदरस्थो हि भूतानां तथा वेत्सि शुभाशुभम् ॥
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यसे ।
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ॥
[२२९]
अथ वा शुद्धभावेषु शीतो भव महाबल ।
आयसं लेलिहानस्य जिह्वयापि समादिशेत् ॥
**आयसं लेलिहानस्येति **। जिह्वया लेलिहानस्याप्य् आयसयोगे तन् मन्त्रं समादिशेद् इत्य् अर्थः ।
विष्णुः [११.१०–१२] ।
अभिमन्त्र्यास करयोर् न्यसेत् तं लोहपिण्डकम् ।
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि साक्षिवत् ॥
त्वम् एवाग्ने विजानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ॥
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ।
याज्ञवल्क्यः [२.१०४–०५] ।
त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥
तस्येत्य् उक्तवतो लोहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥
[२३०] नारदः ।
इत्य् उक्त्वा हस्तयोस् तस्य प्रदद्यात् पिण्डपावकम् ।
सुप्रतप्तं सुसंयुक्तं विस्फुलिङ्गार्चिरुद्दतम् ॥
पिण्डं गृहीत्वा सन्दंशैर् विद्युद्ज्वालासमप्रभम् ।
पितामहः ।
ततः समम् उपादाय राजा धर्मपरायणः ।
सन्दंशेन नियुक्तो वा हस्तयोस् तस्य निक्षिपेत् ॥
विष्णुः [१२.५–७)- “ततस् तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं दद्यात् । तद् आदाय नातिद्रुतं न च विलम्बितं मण्डलेषु पदन्यासं कुर्वन् व्रजेत् । ततः सप्तमं मण्डलम् अतीत्य भूमौ लोहपिण्डं पातयेत्” ।
शङ्खलिखितौ- “अथ वा सप्ताश्वत्थपर्णान्तरितं षोडशपलम् अग्निवर्णं लोहपिण्डं अञ्जलिनादाय सप्तपदमर्यादां गच्छेत्” ।
नारद (४.२९३–९७, २९९) ।
हस्ताभ्यां तं समादाय प्राड्विवाकसमीरितः ।
स्थित्वैकस्मिंस् ततो ऽन्यानि व्रजेत् सप्त त्व् अजिह्मगः ॥
[२३१] > असंभ्रान्तः शनैर् गच्छेद् अक्रुद्धः सो ऽनलं प्रति ।
न पातयेत् ताम् अप्राप्य या भूमिः परिकल्पिता ॥
न मण्डलम् अतिक्रामेन् न चार्वाक् स्थापयेत् पदम् ।
अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ॥
पितामहः ।
त्वरमाणो न गच्छेत् तु स्वस्थो गच्छेत् शनैः शनैः ।
न मण्डलम् अतिक्रामेत् नान्तरा स्थापयेत् पदम् ॥
अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ।
कालिकापुराणे ।
मण्डलानि तथा सप्त षोडशाङ्गुलमात्रतः ।
तावद् अन्तरतो गच्छेत् धृत्वा नवतृणे क्षिपेत् ॥
याज्ञवल्क्यः [२.२०७] ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ।
[२३२] पितामहः ।
भयार्तः पातयेद् यस् तु व्रणं च न विभाव्यते ।
पुनर् आरोहयेल् लोहं स्थितिर् एषा दृढीकृता ॥
कात्यायनः [४४१] ।
प्रज्वालेनाभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥
पितामहः ।
ततस् तद्धस्तयोः प्रास्येद् व्रीहीन् वा यदि वा यवान् ।
निर्विशङ्केन तेषां तु हस्ताभ्यां मर्दने कृते ॥
निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् ।
नारदः [४.३०२–०३] ।
तस्यैवं मुक्तपिण्डस्य कुर्यात् करनिरीक्षणम् ।
पूर्वदृष्टेषु चिह्नेषु ततो ऽन्यत्रापि लक्षयेत् ॥
मण्डलं रक्तसङ्काशं यत्नान् यद् वाग्निसंभवम् ।
सो ऽविशुद्धः सुविज्ञेयो ऽसत्यधर्मव्यवस्थितः ॥
यदा तु न विभाव्येते दग्धाव् इति करौ तदा ।
व्रीहीन् अतिप्रयत्नेन सप्तवारांस् तु मर्दयेत् ॥
[२३३] > मर्दितो यदि नो दग्धः सभ्यैर् एव विनिश्चितः ।
मोच्यः शुद्धः स सत्कृत्य दग्धो दण्ड्यो यथाक्रमम् ॥
विष्णुः [११.८] ।
यो हस्तयोः क्वचिद् दग्धस् तम् अशुद्धं विनिर्दिशेत् ।
न दग्धः सर्वथा यस् तु स विशुद्धो भवेन् नरः ॥
वृद्धः ।
अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥
[२३४]