अथ धटविधिः
तत्र विष्णुः [१०.२–३]- “अथ धटः । चतुर्हस्तोच्छ्रितो द्विहस्तायतः । तत्र च सारवृक्षोद्भवा पञ्चहस्तायता उभयतः शिक्या तुला” ।
पितामहः ।
चतुर्हस्ता तुला कार्या पादौ कार्यौ तथाविधौ ।
अन्तरं तु तयोर् हस्तो भवेद् अध्यर्धम् एव वा ॥
छित्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेह्यस् तुला कार्या मनीषिभिः ॥
नारदः [४.२६४–६५, २६३, २६१] ।
खादिरां कारयेत् तत्र निव्रणां शुष्कवर्जिताम् ।
शांशपीं तदभावे तु सालां वा कोटरैर् विना ॥
अर्जुनस् तिलको ऽशोकस् तिमिशो रक्तचन्दनम् ।
एवंविधानि काष्ठानि धटार्थं परिकल्पयेत् ॥
[२१५]
ऋज्वी धटतुला कार्या खादिनी तैन्दुकी तथा ।
चतुरस्रा त्रिभिः स्थानैर् धटः कर्कटकादिभिः ।
हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोस् तयोः ।
षढस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥
पितामहः ।
तोरणे तु तथा कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृण्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बकौ ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥
नारदः [४.२६५–६७] ।
सभा-राजकुलद्वार-सुरायतनचत्वरे ।
नखेयो निश्चलः कार्यो गन्धमाल्यानुलेपनैः ॥
[२१६]
दध्यक्षतहविर्गन्धैः कृताध्ययनमङ्गलः ।
धर्मरक्षार्थम् आहूतैर् लोकपालैर् अधिष्ठितः ॥
पितामहः ।
तत्रैव लोकपालांश् च सर्वदिक्षु निवेशयेत् ।
त्रिसंध्यं पूजयेन् नित्यं धूपमाल्यानुलेपनैः ॥
लोकपालास् तथादित्या रुद्राश् च वसवस् तथा ।
पूजाप्रभावयुक्ताश् च सांनिध्यं कल्पयन्ति ते ॥
विशालाम् उच्छ्रितां शुद्धां धटशालां तु कारयेत् ।
यत्रस्था नोपहन्येत श्वभिश् चाण्डालवायसैः ॥
कवाटबीजसंयुक्तां परिचारकरक्षिताम् ।
पानीयाग्निसमायुक्ताम् अशून्यां कारयेन् नृपः ॥
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ।
वादित्रतूर्यघोषैश् च धूपमाल्यानुलेपनैः ॥
नारदः [४.२७१–७२] ।
शिक्य्द्वयं समासाद्य धटकर्कटयोर् दृढम् ।
एकत्र शिक्ये पुरुषम् अन्यत्र तुलयेच् छिलाम् ॥
[२१७]
धारयेद् उत्तरे पार्श्वे पुरुषं दक्षिणे शिलाम् ।
पिटिकां पूरयेत् तस्मिन् निष्टकायां सुलोष्टकैः ॥
विष्णुः [१०.५]- “तत्रैकस्मिन् शिक्ये पुरुषम् आरोपयेत् द्वितीये प्रतिमानं शिलादि” ।
पितामहः ।
शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ।
प्रागग्रान् कारयेद् धर्भांस् तत्र विप्रः समाहितः ॥
एकस्मिन् तोलयेन् मर्त्यम् अन्यस्मिन् मृत्तिकां शुभाम् ।
इष्टकाभस्मपाषाणकपालास्थिविवर्जिताम् ॥
परीक्षका नियोक्तव्याः तुलामानविशारदाः ।
वणिजो हेमकाराश् च कांस्यकारास् तथैव च ॥
तथा ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमोधटः ।
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ॥
[२१८]
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ।
नारदः [४.२७३, २७५] ।
प्रथमारोपणे ग्राह्यं प्रमाणं निपुणैः सह ।
तुलाशिलाभ्यां तुल्यं च तोरणं न्यस्तलक्षणम् ॥
तुलयित्वा नरं पूर्वं चिह्नं कृत्वा धटस्य तु ।
कक्षास्थाने यदा तुल्यम् अवतार्य ततो धटात् ॥
याज्ञवल्क्यः [२.१००–०२] ।
तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥
त्वं तुले सत्यधर्मासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥
[२१९] “रेखां कृत्वा” येन संनिवेशेन प्रतीमानसमीकरणदशायां यत्र पादौ स्थितौ शिक्यरज्जवश् च तत्र पाण्डुलेख्येनाङ्कयित्वा ।
पितामहः ।
तुलयित्वा नरं पूर्वं तस्मात् तम् अवतार्य च ।
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ॥
एह्य् एहि भगवन् दर्म दिव्यम् एतत् समाविश ।
सहितो लोकपालैस् त्वं वस्वादित्यमरुद्गणैः ॥
तस्यार्थम् अभियुक्तस्य लेखयित्वा तु पत्रकम् ।
मन्त्रेणानेन सहितं कुर्यात् तस्य शिरोगतम् ॥
आदित्यचन्द्राव् अनिलानलौ च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥
इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु कारयेत् ।
आवाहनं च देवानाम् अथैवं परिकीर्तयेत् ॥
[२२०] > धट त्वं ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ॥
भृतो धारयसे तस्माद् धटस् तेनाभिधीयसे ।
विष्णुः [१०.७–११]- “धटं च समयेन गृह्णीयात् । तुलाधरं च ।
धर्मपर्यायवचनैर् धऋअ इत्य् अभिधीयसे ।
त्वम् एव धट जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानुषस् तोल्यते त्वयि ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥
ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास् तुलां धारयतो मृषा ॥
[समयेन च गृह्णीयात् नियमेन च योजयेत् ।
उपोषितं तथा स्नातं मृण्मयं प्रथमं तुलाम् ॥
संतोल्य कारयेद् एवम् अवतार्यानुमन्त्रयेत् ।
“समयेन गृह्णीयात्” नियमेन योजयेत् । ]
“त्वम् एव धट जानीष” इत्यादिना “ब्रह्मघ्नां ये स्मृता लोका” इत्यादिना च तुलां धरयन् जपेद् इत्य् अर्थः ।
[२२१] कालिकापुराणे ।
उपोषितं तथा स्नातं मृण्मयं प्रथमं तुलाम् ।
संतोल्य कारयेद् एवम् अवतार्याभिमन्त्रयेत् ॥
त्वं तुले सत्यधामासि पूर्वं देवेन निर्मिता ।
तत् सत्यं वद कल्याणि मोदयैनं महापदः ॥
यद्य् अयं पापकृन् मातस् ततश् चामुम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं च तुलाम् इत्य् अभिमन्त्रयेत् ॥
नारदः [४.२७६–७८, २८१, २७९] ।
समयैः परिगृह्याथ पुनर् आरोपयेन् नरम् ।
निर्वाते वृष्टिरहिते शिरस्य् आरोप्य पत्रकम् ॥
तस्मिन्न् एव कृते कक्ष्ये कक्षां कृत्वा द्विजो वदेत् ।
धर्मपर्यायवचनैर् धट इत्य् अभिधीयसे ॥
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ॥
व्यवहाराभिशस्तो ऽयं मानवस् तौल्यते त्वया ।
तद् एनं संशयारूढं धर्मतस् त्रातुम् अर्हसि ॥
[२२२] > देवासुरमनुष्याणां सत्ये त्वम् अतिरिच्यसे ।
सत्यसंधो ऽसि भगवन् शुभाशुभविभावने ॥
आदित्यचन्द्राव् अनिलानलौ च
द्यौर् भूमिर् आपो हृदयं यमश् च ।
अहश् च रात्रिश् च उभे च संध्ये
धर्मश् च जानाति नरस्य वृत्तम् ॥
तस्मिन्न् एव कृते कक्ष्ये इति । कक्षां तुलनां मर्यादाकृतानाम् एव परीक्षार्थम् आरोहणसमये ऽपि कृत्वा धर्मपर्यायशब्देनेत्यादि परीक्षकः पठेद् इत्य् अर्थः ।
पितामहः ।
तुलितो यदि वर्धेत शुद्धो भवति धर्मतः ।
हीयमानो न शुद्धः स्याद् एकेषां तु समो शुचिः ॥
अल्पपाप समो ज्ञेयो बहुपापस् तु हीयते ।
धर्मगौरवमाहात्म्याद् अतिरिक्तो विशुध्यति ॥
[२२३] बृहस्पतिः [८.४९] ।
धटे ऽभियुक्तस् तुलितो हीनश् चेद् धानिम् आप्नुयात् ।
तत्समस् तु पुनस् तौल्ये वर्धितो विजयी भवेत् ॥
व्यासः ।
अधोगतिर् न शुध्येत शुध्यत्य् ऊर्ध्वगतिस् तथा ।
समो ऽपि न च शुद्धः स्याद् एषा शुद्धिर् उदाहृता ॥
कक्षाच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे वा दद्याच् छिद्धिं पुनर् नृपः ॥
कात्यायनः [४४०] ।
शिक्यच्छेदे तुलाभङ्गे तथा चापि गुणस्य वा ।
शुद्धेस् तु संशये चैव परीक्षेत पुनर् नरम् ॥
[२२४]