३८ दिव्यानि

अथ दिव्यानि

(क) दिव्यभेदाइः

तत्र नारदः [४.२३९, २५२, २५३] ।

युक्तिष्व् अप्य् असमर्थासु शपथैर् एनम् अर्दयेत् ।
अर्थकालबलापेक्षम् अग्न्यम्बुसुकृतादिभिः ।
धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमः ।
उक्तान्य् एतानि दिव्यानि विशुद्ध्यर्थं महात्मभिः ॥
सम्दिघे ऽर्थे ऽभियुक्तानां परीक्षार्थं महात्मभिः ।
प्रोक्तानि नारदेनेह सत्यानृतविशुद्धये ॥

“अर्दयेत्” पीडयेत् ।

शङ्खलिखितौ- “असाक्षिप्रणिहिते पुरुषप्रत्ययः शासनं भेदनं ताडनम् । संन्यस्ते वा विवादे वा दैवं वा कोशविषभक्षणशस्त्रजलम्” ।

“असाक्षिप्रणिहिते” साक्षिभिर् अनिर्णीते । “पुरुषप्रत्ययः” पुरुषः प्रतीयते येन मिथ्याकारितया, पुरुषप्र्त्ययः शासनादिः । “भेदनम्” प्रतोदादिः । “संन्यस्ते” लिखितादिप्रमाणरहिते । “दैवं” दिव्यं धतादि ।

[१९८] बृहस्पतिः [८.३–४] ।

धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमम् ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं सप्तमाषकः ॥
अष्टमं फाल इत्य् उक्तं नवमं धर्मजं भवेत् ॥
दिव्यान्य् एतानि धर्माणि निर्दिष्टानि स्वयंभुवा ॥

तथा [८.५–६] ।

अहम् उद्देशतो वच्मि संदिघार्थविशुद्धये ।
देशकालार्थसंख्याभिः प्रयुक्तान्य् अनुपूर्वशः ॥
अपराधानुपूर्वेण साध्वसाधुविवक्षया ।
शास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥

अथ द्रव्यसंख्यादिना दिव्यविशेषः । तत्र विष्णुः [९.१–३]- “अथ शपथक्रिया । राजद्रोहसाहसेषु यथाक्रमम् । निक्षेपस्तेयेष्व् अर्थप्रमाणात्” । “शपथो” दिव्यम् ।

[१९९] दैवी क्रियेत्य् अनुवृत्तौ बृहस्पतिः [८.७] ।

ऋणादिकेषु कार्येषु विसंवादे परस्परम् ।
द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥

कात्यायनः [४१६] ।

दत्तस्याफ्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥

“प्रमाणम्” अपह्नुतद्रव्यानुसारेण दिव्यादिप्रमाणं दापयेत् ।

बृहस्पतिः [८.२७–३२] ।

संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥
विषं सहस्रे ऽपहृते पादोने च हुताशनः ।
त्रिभागोने च सलिलम् अर्धे देयो धटस् तथा ॥
चतुःशते ऽभियोगे तु दातव्यस् तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोशश् चैव तदर्धके ॥
शते हृते ऽपह्नुते च दातव्यं दर्मशोधनम् ।

[२००]

गोचोरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ॥
यथासंख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां च कल्पनीया प्रयत्नतः ॥

“रश्मिरोजोमूला”

रश्मुमूलगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥

इत्यादिका । “विनयो” दण्डः । “निकृष्टानां” जातिकर्मगुणैः । एवं मध्यमानाम् उत्तमानां च ।

याज्ञवल्क्यः [२.९९] ।

नासहस्राद् धरेत् फालं न विषं न तुलां तथा ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयस् तदा ॥

“नासहस्रात्” पणसहस्राद् ऊर्ध्वं चापह्नवे फालादिक्रियेत्य् अर्थः । “नृपार्थेषु” नृपविषयेषु द्रोहादिषु । “अभिशापे” पातकाभिगोये । “शुचयः” स्नानादिना ।

विष्णुः [९.४]- “सर्वेष्व् एवार्थजातेषु मूल्यं कनकं प्रकल्पयेत्” । २०१] तथा [९.१०–१९]- “सुवर्णार्धोने कोशो दातव्यः शूद्रस्य । ततः परं यथार्हं घटाग्न्युदकविषाणाम् अन्यतमम् । द्विगुणे ऽर्थे यथाभिहिता समयक्रिया वैश्यस्य । त्रिगुणाथ राजन्यस्य । कोशवर्जं चतुर्गुणार्थे ब्राह्मणस्य । न ब्राह्मणस्य कोशं दद्यात् । अन्यत्रागामिकालसमयनिबन्धनक्रियातः । कोशस्थाने ब्राह्मणं सीरोद्धृतमहीकरम् एव शापयेत् । प्राग्दृष्टदोषं स्वल्पे ऽप्य् अर्थे दिव्यानाम् अन्यतमम् एव कारयेत् । सत्सु विदितं सच्चारित्रं न महत्य् अर्थे ऽपि” ।

“सुवर्णार्धोने” परिकल्प्यमाने किंचिन्न्यूने, सुवर्णार्धमूल्ये । “द्विगुणे ऽर्थे” पूर्वार्थोक्तसुवर्णार्धरूपे द्विगुणीभूते । एवं त्रिगुणादाव् अपि । ऽयथभिहितसमयक्रिया" कोशपानरूपा । अन्यत्रागामीत्यादि । अस्माभिर् मिलित्वा एवं कर्तव्यम् एवेति समयकरणम्, तस्माद् अन्यत्र । “सीरोद्धृतमहीकरम्” हलोत्खातमृत्तिकाहस्तम् । “दिव्यानाम्” घटादीनाम् । “सत्सु विदितम्” शिष्टेषु प्रसिद्धम् । “न महत्य् ऽर्थे ऽपि” धटादीनाम् अन्यतमं कारेयेद् इत्य् अर्थः ।

कात्यायनः [४१७, प्रथमे] ।

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं प्रयोजयेत् ॥

[२०२] > शते विषं तु पादोने हुतभुक् तत्र दृश्यते ।

आपस् त्रिभागहीने तु शतार्धे तु तुला स्मृता ॥
कोशपानं तदर्धे वा दशपञ्चकसप्तसु ।
तदर्धे तण्डुला ज्ञेया तदर्धे तप्तमाषकः ॥

“शते” सुवर्णस्येति शेषः ।

वृद्धः [कात्यायनः ४१८–२०] ।

ज्ञात्वा संख्यां सुवर्णस्य शतनाशे विषं स्मृतम् ।
अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं ज्ञेयं स्याच् चत्वारिंशता धटः ।
त्रिंशद्दशविनाशे वा कोशपानं बृहस्पतिः ॥
पञ्चार्धिकस्य वा नाशे तदर्धस्य च तण्डुलाः ।

“पञ्चार्धिकस्य” पञ्चार्धं सार्धद्वयम् ।

[२०३]

(ख) अथ दिव्यकालविशेषः

तत्र पितामहः ।

यो यस्य विहितः कालो विधिर् यस्य च यो यथा ।
तं प्रवक्ष्यामि तत्त्वेन वादिनश् च बलाबलम् ॥
चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
धटः सर्वर्तुकः प्रोक्तो वाते वाति विवर्जयेत् ।
अग्नेः शिशिरहेमन्तवर्षाश् चैव प्रकीर्तिताः ॥
शरद्ग्रीष्मे तु सलिलं हेमन्ते शिशिरे विषम् ।

नारदः [४.२६०, २५४] ।

विचार्य धर्मनिपुणैर् धर्मशास्त्रविशारदैः ।
धर्म्यं सर्वर्तुकं प्रोक्तं पिण्डितैर् धटधारणम् ॥
वर्षासु समये वह्निः हेमन्ते शिशिरे तथा ।
ग्रीष्मे सलिलम् इत्य् उक्तं विषं काले तु शीतले ॥

[२०४] > न शीते तोयसिद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।

न प्रावृषि विषं दद्यात् प्रवातु तु (न?) तुलां नृपः ॥

पितामहः ।

अव्यवस्थितमर्यादं विषं प्रावृषि जायते ।

(ग) अथ वर्णादितो दिव्यविशेषः

तत्र नारदः [४.३३४] ।

ब्राह्मणस्य घटो देयः क्षत्रियस्य हुताशनः।
वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव तु ॥
साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ।
विषवर्जं ब्राह्मणस्य सर्वेषां वा तुला स्मृता ॥

कात्यायनः [४२२] ।

राजन्ये ऽग्निर् धटं विप्रे वैश्ये तोयं नियोजयेत् ।
सर्वेषु सर्वदिव्यं वा विषं वर्ज्यं द्विजातये ॥

याज्ञवल्क्यः [२.९८] ।

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वाशुद्रस्य यवाः सप्त विषस्य वा ॥

[२०५] कात्यायनः [४२३] ।

गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव ग्राहयेच् छूद्रवद् द्विजान् ॥

कालिकापुराणे ।

वैश्यस्य च जलं देयं विषं शुद्रस दापयेत् ।
वर्णान्तस्य सदा देयं माषकं तप्तहेमजम् ॥

“वर्णान्तस्य” इत्यन्तस्य (?) ।

नारदः [४.२५५, ३१३–१५] ।

क्लीबातुरान् सत्वहीनान् पतितांश् चार्दितान् नरान् ।
बालवृद्धातुरान् स्त्रींश् च परीक्षेत धटे सदा ॥
नार्तानां तोयशुद्धिः स्यान् न विषं पित्तरोगिणाम् ।
श्वित्र्यन्धकुनखीनां च नाग्निकर्म विधीयते ॥

[२०६]

न मज्जनीयं स्त्रीबालं धर्मशास्त्रविचक्षणैः ।
रोगिणो ये च वृद्धः स्युः पुमांसो ये च दुर्बलाः ॥
निरुत्साहान् व्याधिक्लिष्टान् नार्तान् तोय निमज्जयेत् ।
सद्यो म्रियन्ते मज्जन्तः स्वल्पप्राणा हि ते स्मृताः ॥
साहसे ऽप्य् आगतान् एतान् नैव तोये निमज्जयेत् ।
न चापि हारयेद् [साधयेद्?] अग्निं न विषेण विशोधयेत् ॥

कात्यायनः [४२८] ।

न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्यात् तु न क्वचित् ॥
दिव्यं तु वर्जयेन् नित्यम् आर्तानां तु गदैर् नृणाम् ।
तण्डुलैर् न नियुञ्जीत व्रतिनां मुखरोगिणाम् ॥

विष्णुः [९.२५–३२]- “न कुष्ट्यसमर्थलोहकाराणाम् अगिर् देयः । शरद्ग्रीष्मयोश् च । न कुष्ठिपौत्तकब्राह्मणानां विषं देयम् । प्रावृषि च । न श्लेष्मव्याध्यर्दितानां भीरूणां [२०७] श्वासकासिनाम् अम्बुजीविनां चोदकम् । हेमन्तिशिशिरयोश् च । न नास्तिकेभ्यः कोशो देयः, देशे व्याधिमरणकोपसृष्टे च” ।

नारदः [४.३३२] ।

महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशदानं विवर्जयेत् ॥

पितामहः ।

मद्यपस्त्रीव्यसिनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥

कात्यायनः [४३६] ।

कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् ।
अन्येन हारयेद् दिव्यं विधिर् एव विपर्यये ॥

नारदः [४.२५६] ।

सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां न तु भवेद् दिव्यं यदि धर्मस् त्व् अवेक्ष्यते ॥

[२०८] कात्यायनः [४२७–३०] ।

मातापितृद्विजगुरुबालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ॥
लिङ्गिनां प्रसवानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥
एतेष्व् एवाभियोगेषु निन्दितेष्व् एव यत्नतः ।
दिव्यं प्रकल्पयेन् नैव राजा धर्मपरायणः ॥
एतैर् एव नियुक्तानां साधूनां दिव्यम् अर्हति ।
न सन्ति साधवो यत्र तत्र शोध्याः स्वकैर् नरैः (?) ॥

तथा [४३१–३२]

महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥
एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् मनुः ॥

[२०९]

**(घ) अथावष्टम्भवादः **

तत्र पितामहः ।

अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एतौ नियोजयेत् ॥

“अवष्टम्भो” निश्चयः ।

तथा ।

चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते ।

कात्यायनः [४१५] ।

शङ्का विश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥

पितामहः ।

विस्रम्भे सर्वश्ङ्कासु संधिकार्ये तथैव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥

याज्ञवल्क्यः [२.९५] ।

तुलाग्न्यापो विषं कोशो द्वियानीह विशुद्धये ।
महाभियोगेष्व् एतानि श्रीषकस्थे ऽभियोक्तरि ॥

“शीर्षकम्” शिरः । तच् च दिव्यग्राहिणो जये स्वयं दण्डाङ्गीकारः ।

**[२१०] **पितामहः ।

शिरःस्थायिविहीनाति दिव्यानि परिवर्जयेत् ।
चत्वारि तु धटादीनि कोशस् त्व् एवाशिराः स्मृतः ॥
अभियोक्ता शिरःस्थायी दिव्येषु परिकल्पयेत् ।
अभियुक्ताय दातव्यं दिव्यं स्मृतिनिदर्शनात् ॥

याज्ञवल्क्यः [२.२६] ।

रुच्या वायतरः कुर्याद् इतरो वर्तयेच् छिरः ।
विनापि शीर्षकान् कुर्यान् नृपद्रोहे च पातके ॥

कालिकापुराणे ।

परदाराभिशापे च चौर्ये ऽगम्यागमेषु च ।
महापातकशस्तेषु स्याद् दिव्यं नृपसाहसे ॥
विप्रतिपत्तौ विवादे चावर्णस्थापने कृते ।
तत्रैतद् दापयेद् दिव्यं शिरःपूर्वं महीपतिः ॥

[२११]

परदाराभिमर्शे च बहवो यत्र वादिनः ।
शिरोहीनं भवेद् दिव्यम् आत्मनः शुद्धिकारणात् ॥

“विप्रतिपत्तौ” परदाराभिशापादिविषयायाम् । “विवादे” ऋणादानादिविषये । [“अवर्णो” अपवादः] । “परदाराभिमर्शे च” इति चौर्यादीनाम् अप्य् उपलक्षणम् ।

विष्णुः [९.२२] ।

राजद्रोहे साहसेषु विनाशीर्षप्रवर्तनात् । इति ।

पितामहः ।

राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना॥

नारदः [४.२७०] ।

अशिरांसि च दिव्यानि राजकृत्येषु दापयेत् ।
अभियोक्ताभियुक्तानाम् अन्येषां च यथाक्रमम् ॥

(ङ) अथ देशकालः

कात्यायनः [४३४–३५] ।

इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारेषु योजयेत् ॥

[२१२] > प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।

अतो ऽन्येषु [तु] कार्येषु सभामध्ये विदुर् बुधाः ॥

“इन्द्रस्थानम्” इन्द्रध्वजपूजास्थानम् ।

बृहस्पति-कात्यायनौ [बृ। ८.१५–१६; का। ४३९–४४०] ।

यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तप्रदत्तं च न शक्यं साध्यसाधने ॥
अदेशकालदत्तानि बहिर्वादिकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥

“बहिर्वादिनम्” वादिनम् अभियोक्तारं विना ।

(च) अथ दिव्यविधिः

बृहस्पतिः [८.१४] ।

स्नेहात् क्रोधाल् लोभतो वा भेदम् आयान्ति साक्षिणः ।
विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥

पितामहः ।

प्रत्यक्षं दापयेद् दिव्यं राज वाधिकृतो ऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥

[२१३] विष्णु[याज्ञवल्क्यौ] ।

सचेलं स्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥

नारदः [४.२६८] ।

अहोरात्रोषिते स्नाते आर्द्रवाससि मानवे ।
पूर्वाह्णे सर्वदिव्यानां प्रदानम् अनुकीर्तितम् ॥

पितामहः ।

त्रिरात्रोपोषितायैव एकरात्रोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चाद्रवाससे ॥
दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥

कात्यायनः [४३८] ।

साधयेत् तत् पुनः साध्यं व्याघाते साधनस्य हि ।
दत्तान्य् अपि यथोक्तानि राजा दिव्यानि वर्जयेत् ॥
मूर्खैर् लुब्धैश् च दुष्टैश् च पुनर् देयानि तानि वै ।

“दत्तानि” इत्य् अस्य “मूर्खैर्” इत्यादिनान्वयः । “वर्जयेत्” न प्रमाणीकुर्यात् ।

[२१४]