अथ युक्तयह्
तत्र बृहस्पतिः [७.६८] ।
असाक्षिके चिरकृते पृच्छेद् उत्तरसाक्षिणः ।
शपथान् वा प्रयुञ्जीयाद् उपधां वापि योजयेत् ॥
“उपधा” युक्तिः ।
नारदः [४.२३५–२३७] ।
प्रमादाद् धनिनो यत्र न स्याल् लेख्यं न साक्षिणः ।
अर्थं वापह्नुते वादी तत्रोक्तस् त्रिविधो विधिः ॥
चोदना प्रतिकालं च युक्तिलेशस् तथैव च ।
तृतीयः शपथः प्रोक्तस् तैर् एनं साधयेत् क्रमात् ॥
[१९४]
अभीक्ष्णं चोद्यमानो यः प्रतिहन्यान् न तद्वचः ।
त्रिचतुःपञ्चकृत्वो वा परतो ऽर्थं स दाप्यते ॥
“चोदना प्रतिकालम्” ऽदेवदत्त धनं देहि" इति प्रतिक्षणम् प्रेरणा ।
कात्यायनः [१४४, ३३६] ।
श्राव्यमाणो ऽर्थिना यत्र यो ह्य् अर्थो न विघातितः ।
दानकाले ऽथ वा तूष्णीं स्थितः सो ऽर्थो ऽनुमोदितः ॥
अर्थिनाभ्यर्थितो तत्र विघातं न प्रयोजयेत् ।
त्रिचतुःपञ्चकृत्वो वा परतस् तद् ऋणी वहेत् ॥
स्वामिना नृपतिर् विप्रं क्रमेणोक्तं प्रदापयेत् ।
ततो ऽन्यं दापयेत् पूर्वं सकृद् युक्तं विघातिनम् ॥
नारदः [४.२३८] ।
चोदनाप्रतिघाते तु युक्तिलेशैस् तम् अन्वियात् ।
देशकालार्थसम्बन्धपरिमाणक्रियादिभिः ॥
कात्यायनः [३३७–३३८] ।
दानं प्रज्ञापनाभेदः संप्रलोभक्रिया च या ।
चिन्तापनयनं चैव हेतवो हि विभावकाः ॥
[१९५]
एषाम् अन्यतमोयत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद् भाविते वादिनिह्नवे ॥
“एषाम् अन्यतमः” इति । एषां हेतूनाम् अन्यतमो ऽपि चेत् प्रदर्शितः सिद्धैव तदा मूलक्रिया ।
नारदः [४.१७२–१७५] ।
असाक्षिप्रत्ययास् त्व् अन्ये षड् विवादाः प्रकीर्तिताः ।
लक्षणान्य् एव साक्षित्व येषाम् आहुर् मनीषिणः ॥
उल्काहस्तो ऽग्निदो ज्ञेयः शस्त्रपाणिश् च घातकः ।
केशाकेशिगृहीतश् च युगपत् पारदारिकः ॥
कुद्दालपाणिर् विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारहस्तश् च वनच्छेता प्रकीर्तितः ॥
प्रत्यक्षचिह्नैर् विज्ञेयो दण्डपारुष्यकृत् नरः ।
असाक्षिप्रयया ह्य् एते पारुष्ये तु परीक्षणम् ॥
“साक्षित्वे” साक्षिस्थाने ।
शङ्खलिखितौ- “केशाकेशिग्रहणात् पारदारिकः । उल्काहस्तो ऽग्निदः । शस्त्रपाणिर् घातकः । [१९६] लोप्त्रहस्तश् च चौरः । क्षेपे ऽष्टशतं यथानुरूपं वा । रुधिरस्रावे प्रहारैश् चाभिव्यक्ते न साक्षिणः । प्रत्यक्षलिङ्गाभिव्यक्ते चाष्टशतम्” ।
इति भट्टलक्ष्मीधरविरचिते
कृत्यकल्पतरौ युक्तिः ॥
[१९७]