३६ विच्छिन्नभोगनिर्णयः

अथ विच्छिन्नभोगनिर्णयः

तत्र बृहस्पतिः [७.४८–५२] ।

छिन्नभोगे गृहक्षेत्रे संदिघं यत्र जायते ।
लेख्येन भोगविद्भिर् वा साक्षिभिस् तद् विभवयेत् ॥
नामघाटागमं संख्यां कालं दिग्भागम् एव वा ।
भोगच्छेदनिमित्तं च ये विदुस् ते ऽत्र साक्षिणः ॥
तदुत्पन्नाश् च सामन्ता ये ऽन्यदेशान्त्रस्थिताः ।
मौलास् ते तु समुद्दिष्टाः प्रवेष्टव्याः कार्यनिर्णये ॥
अदुष्टास् ते तु यद् ब्रूयुः संदिग्धे समदृष्टयः ।
तत् प्रमाणं तु कर्तव्यम् एवं धर्मो न हीयते ॥
स्थावरस्यैतद् आख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीने वादे तु निर्देश्या दैविकी क्रिया ॥

[१९३]