३५ अन्य-भोग-हान्य्-अपवादः
३५ — अथान्यभोगहान्यपवादः
तत्र बृहस्पतिः [७.४३, ४४, ४६] ।
भुक्तिस् त्रिपौरुषी सिध्येत् परेषां नात्र संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥
अस्वामिना तु यद् अभुक्तं गृहक्ष्त्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद् भोगेन हीयते ॥
विवाह्यश्रोत्रियैर् भुक्तं राजामात्यैस् तथैव च ।
सुदीर्घेणापि कालेन तेषां सिध्यन् न तद् धनम् ॥
“ऽअनिवृत्ते सपिण्डत्वे” इति । सपिण्डत्वे विद्यमाने सत्य् अपि त्रिपुरुषभुक्तौ सकुल्यानां भुज्यमानं स्वं न भवतीत्य् अर्थः । “विवाह्यो” जामाता ।
गौतमः [१२.३४–३६]- ऽअजडापोगण्डधनं दशवर्षपर्यन्तम् उपभुक्तं परैः संनिधौ भोक्तुः । न श्रोत्रियप्रव्रजितराजपुरुषैः । पशुभूमिस्त्रीणाम् अनतिभोगः" । अतिभोगतो हानिर् इत्य् अर्थः ।
कात्यायनः [३३५] ।
सनाभिभिर् बान्धवैश् च भुक्तं यत् स्वजनैस् तथा ।
भोगात् तत्र न सिद्धिः स्याद् भोगम् अन्येषु कल्पयेत् ॥
[१९०] “अन्येषु” असम्बन्धिषु भोक्तृषु ।
मनु-नारदौ ।
आधिः सीमा बालधनं निक्षेपोपनिधी स्त्रियः ।
राजस्वं श्रोत्रियस्वं च न भोगेन प्रण्श्यति ॥
बृहस्पतिः [७.४७] ।
अशक्तालसरोगार्तबालभीतप्रवासिनाम् ।
शासनारूढम् अन्येन भुक्तं भुक्त्या न हीयते ॥
“शासनारूढम्” ताम्रपट्टादिलिखितम् ।
कात्यायनः [३३०] ।
न भोगं कल्पयेत् स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ॥
[१९१] > न स्त्रीणाम् उपभोगः स्याद् विना लेख्यात् कदाचन ।
शत्रुश्रोत्रियराज्ञां तु तथा बालधने मतः ॥
मनुः [८.१४६] ।
संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥
“दम्यः प्रयुज्यते” दमनार्थं यः समर्थ्यते ।
कात्यायनः ।
क्रयं शिल्पिषु निक्षिप्तं बन्धान्वाहितयाचितम् ।
प्रसह्यातिहनन् मोहाद् धीनो दण्ड्यः स वै भवेत् ॥
“क्रयो” मूल्यम् ।
याज्ञवल्क्यः [२.२६] ।
आध्यादीनां निहन्तारं धनिने दापयेद् धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥
“शक्त्यपेक्षम्” यथाशक्ति, “दण्डं दापयेत्” ।
१९२]