३४ भुक्तिः

अथ भुक्तिः

तत्र बृहस्पतिः [२७.२२–२८] ।

एतद् विधानम् आख्यातं साक्षिणां लिखितस्य च ।
संप्रति स्थावरे प्राप्ते भुक्तस्य विधिर् उच्यते ॥
विद्यया क्रयबन्धेन शौर्यभार्यान्वयागतम् ।
सपिण्डस्याप्रजस्यांशं स्थावरं सप्तधा स्मृतम् ॥
पित्र्ये लब्धक्रयाधाने सत्वशौर्यप्रवेदनात् ।
प्राप्ते सप्तविधे भोगः सागमः सिद्धिम् आप्नुयात् ॥
क्रमागतः शासनिकः क्रयाधानागमान्वितः ।
एवंविधस् तु यो भोगः स तु सिद्धिम् अवाप्नुयात् ॥
संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः ।
स्थावरं सिद्धिम् आप्नोति भुक्त्वा हानिम् उपेक्षया ॥
प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थिनम् ।
तस्य तत्सिद्धिम् आप्नोति हानिं चोपेक्षया तथा ॥

[१७८]

अध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।
त्रिंशद्वर्षाण्य् अविच्छिन्ना तस्य तां न विचालयेत् ॥

“विद्यया” प्रतिग्रहादिप्रकारेण । “बन्धः” आधिः । “शौर्यागतम्” युद्धादिना यत् प्राप्तम् । “भार्यागतम्” भार्यया सह लब्धम् । “अन्वयागतम्” पित्रादिक्रमेणायातम् । “प्रवेदनम्” विवाहः । “पित्र्य“इत्यादिना पूर्वोक्तसप्तप्रकारानुवादः । “अपरिपन्थिनम्” अविरोधिनम् । “अध्यासनम्” अधिकृतावस्थानम् । “अविघातिनी” अविच्छिन्ना ।

विष्णु-कात्यायनौ ।

सागमेन तु भोगेन भुक्तं सम्यग् यदा तु यत् ।
आहर्ता लभते तत् तु नापहार्यं तु तत् क्वचित् ॥
पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन् प्रेते न वाच्यो ऽसौ भुक्त्या प्राप्तं हि तस्य् अतत् ॥
त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।
लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥\

[१७९] “भुक्त्याचारेण” सम्यग्भुक्त्या ।

नारदः [४.९७] ।

अन्यायेन तु यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच्छक्त्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

“पित्रा पूर्वतरैस् त्रिभिर्” इति पित्रा सह त्रिभिः पूर्वतरैर् अन्यैर् इत्य् अन्वयः ।

तथा ।

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सामगा ।
कारणं भुक्तिर् एवैका सन्तता या चिरन्तनी ॥

“कारणम्” प्रमाणम् ।

कात्यायनः [३२९, ३२१] ।

भुक्तिर् बलवती शास्त्रे सन्तता या चिरन्तनी ।
विच्छिन्नापि तु सा ज्ञेया या तु पूर्वप्रसाधिता ॥
आदानकालाद् आरभ्य भुक्तिर् या तु निरन्तरा।
आसानं प्राप्य तस्यां तु प्रायः साक्ष्यं प्रवर्तते ॥
स्मार्ते काले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥

[१८०] “पूर्वप्रसाधिता” पूर्वैः पुरुषैः कृता । “निरन्तरा” या भुक्तिर् अल्पकाला भवति तस्याम् आहर्तुः प्रतिग्रहादिकं प्राप्य साक्ष्यं प्रवर्तत इत्य् अर्थः । “स्मार्ते” स्मरणयोग्यकाले । “क्रियां” प्रमाणम् । “आगमः” स्वत्वे हेतुः क्रयप्रतिग्रहादि । “अनुगमाभावात्” अनुगमस्यानुसंधानस्याभावाद् इत्य् अर्थः ।

याज्ञवल्क्यः [२.२७] ।

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागमात् ।

कात्यायनः [३१८] ।

मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिर् एतैर् अविच्छिन्ना स्थिरा षष्ट्याब्दिका मता ॥

व्यासः ।

पिता पितामहो यस्य जीवेच् च प्रपितामहः ।
त्रयाणां जीवनं भोगो विज्ञाप्यस् त्व् एकपूरुषः ॥
पितामहेन भुक्तस्य तत्पुत्रेणापि पालनम् ।
तौ विना यस्य पित्रा च तस्य भोगस् त्रिपूरुषः ॥

[१८१] > वर्षाणि विंशतिं भुक्ता स्वामिनाव्याहता सती ।

भुक्तिः सा पौरुषी भूमेर् द्विगुणा च द्विपौरुषी ॥
त्रिपौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः ॥

तथा [बृहस्पतिः] [८.६४] ।

सागमो दीर्घकालश् च निश्छिद्रो ऽन्यरवोज्झितः ।
प्रत्यर्थिसंनिधानश् च पञ्चाङ्गो भोग उच्यते ॥

“निश्छिद्रः” विच्छेदरहितः । “अन्यरवोज्झितः” विप्रतिपत्तिशून्यः । “प्रत्यर्थिसंनिधानः” प्रत्यर्थिनः संनिधानं यस्य स तथा ।

बृहस्पतिः [७.३२–३५] ।

यद्य् एकशासने ग्रामक्षेत्रारामाश् च लेखिताः ।
एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ॥
अनुमानाद् वरः साक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥

[१८२] > अनुमानं सद्य एव साक्षी चा मरणाद् भवेत् ।

अव्याहतं लेख्यभोगं प्रमाणं तत् त्रिपूरुषम् ॥

अनुमानं सद्य एवेति । आकारेङ्गितादिलिङ्गैः विवादकाल एवानुमानं प्रवर्तते ।

नारदः [४.७५–७६] ।

लिखितं बलवन् नित्यं जीवन्तस् त्व् एव साक्षिणः ।
कालातिहरणाद् भुक्तिर् इति शास्त्रेषु निर्णयः ॥
त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् ।
पूर्वं पूर्वं गुरु ज्ञेयं भुक्तिर् एभ्यो गरीयसी ॥

एभ्यस् त्व् अल्पकालभुक्तिसाक्षिलिखितेभ्यो बहुकालीना वा भुक्तिर् गरीयसी बलवती ।

याज्ञवल्क्यः [२.२८] ।

आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥

[१८३] बृहस्पतिः [७.३९] ।

आहर्ता शोधयेद् भुक्तिम् आगमं चाप् संसदि ।
तत्सुतो भुक्तिम् एवैकां पौत्रादिस् तु न किंचन ॥

कात्यायनः [३२४] ।

येनोपात्तं हि यद् द्रव्यं सो ऽभियुक्तस् तद् उद्धरेत् ।
चिरकालोपभोगे ऽपि भुक्तिस् तस्यैव नेश्यते ॥

बृहस्पतिः [७.३८] ।

यदाहर्ताभियुक्तः स्याल् लेख्यं साक्षी तदा गुरुः ।
लेख्याभावे तु युक्तिस् तु भुक्तिस् ताभ्यां गरीयसी ॥

तथा [? कात्यायनः ३१६] ।

नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥

[१८४] याज्ञवल्क्यः [२.२९] ।

यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थि तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन कृता विना ॥

नारदः [४.९३, ८५] ।

तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रांआण्यं नाधिगच्छति ॥

तथा [नारद ८.८७–८८, ९२] ।

अनागमेन भुक्तं यन् न तद् भुक्तिवशान् नयेत् ।
एतत् तु कर्तरि धनं याति तद्विंशिनो मतम् ॥

[१८५]

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥
अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचितम् ।
अप्रत्यक्षं च यद् भुक्तं षड् एतान्य् आगमं विना ॥

अनुपभोगेनासिद्धिः

**अथानुपभोगेनासिद्धिः **

तत्र याज्ञवल्क्यः [२.२७] ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ।

नारदः [४.७७, ८८] ।

विद्यमाने ऽपि लिखिते जीवत्स्व् अपि हि साक्षिषु ।
विशेषतः स्थावराणां यत्र भुक्तं न तत् स्थिरम् ॥
भुज्यमानान् परैर् अर्थान् यः स्वान् मोहाद् उपेक्षते ।
समक्षं जीवतो ऽप्य् अस्य तान् भुक्तिः कुरुते वशे ॥

व्यासः ।

उपेक्षिता यथा धेनुर् विना पालेन नश्यति ।
पश्यतो ऽन्यैस् तथा भुक्ता भूमिः कालेन हीयते ॥

[१८६]

वर्षाणि विंशतिं यस्य भूर् भुक्ता तु परैर् इह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥

नारदः [४.४२] ।

प्रत्यक्षपरिभोगात् तु स्वामिनो द्विदशाः समाः ।
आध्यादीन्य् अपि जीर्यन्ति स्त्रीनरेन्द्रधाद् ऋते ॥

ऽद्विदशाः समाः” विंशतिवर्षाणि । ऽस्त्रीनरेन्द्रधनाद् ऋते” स्त्रीधनराजधनव्यतिरेकेण ।

याज्ञवल्क्यः [२.२४] ।

पश्यतो ऽब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥

[१८७] मनु-नारदौ [मनु ८.१४३; ना। ४.७९] ।

यत् किंचिद् दशवर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥

गौतमः [१२.३४]- “अजडापोगण्डधनं दशवर्षभुक्तं परैः संनिधौ भोक्तुः” । “अजडस्य” [ऽअपोगण्डस्यऽ] च धनं तत्संनिधाने अविवादं परैर् दशवर्षपर्यन्तम् उपभुक्तं भोक्तुर् एवैतत् स्वं संपद्यत इत्य् अर्थः ।

मनुः [८.१४५] ।

आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥

“आधिः” बन्धकः । “उपनिधिर्” अपि प्रीत्या भोगार्थं समर्पितं क्षेत्रादि । न तु ऽवासनस्थम् अनाख्याय" इत्यादिस्मृतिलक्षणः । तस्य भोगानर्हत्वात् । “कालात्ययः” उक्तावधिकालातिक्रमः । तस्य भोगानर्हत्वात् । “कालात्ययः” उक्तावधिकालातिक्रमः । ऽन कालात्ययम् अर्हतः" मोक्षणकाले ऽवश्यं मोक्षणीयाव् इत्य् अर्थः । तत्र हेतुम् आह- ऽअवहार्यौ भवेताम्" इत्यादिना । तौ हि चिरकालावस्थितौ भोक्तुर् अवहार्यौ भवेताम्, भोक्ता कदाचिद् अपहरेद् अपीत्य् अर्थः ।

[१८८] बृहस्पतिः [७.४०, ४१] ।

ऋक्थिभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान् न स तल् लब्धुम् अर्हति ॥
पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।
स्वामी सतापि लेख्येन न पुनस् तां समाप्नुयात् ॥

तथा [७.६६–६७] ।

भूमेर् अभुक्तिर् लेख्यस्य यथाकालम् अदर्शनम् ।
अस्मारणं साक्षिणां च स्वार्थहानिकराणि तु ॥
तस्माद् यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।
तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥

[१८९]