३३ लेख्यदौर्बल्यम्

अथ लेख्यदौर्बल्यम्

तत्र बृहस्पतिः [६.५१, ४७, ४८] ।

आढ्यस्य निकटस्थस्य यच् छक्तेन न याचितम् ।
शुद्धर्णाशङ्कया तत् तु लेख्यं दुर्बलताम् इयात् ॥
लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिम् अवाप्नोति संतिष्ठत्स्व् अपि साक्षिषु ॥
प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
न याचते च ऋणिकं तत्संडेहम् अवाप्नुयात् ॥

“शुद्धर्णाशङ्कया” शुद्धम् ऋणम् इति शङ्कया । “शान्तलाभे” अधमर्णापीडाकरे ।

व्यासः ।

अदृष्टाश्रावितं लेख्यं प्रमीतधनिकर्णिकम् ।
अबन्धलग्नकं चैव बहुकालं न सिध्यति ॥

“अबन्धलग्नकम्” बन्धलग्नकाभ्यां हीनम् ।

बृहस्पतिः [६,५१] ।

उन्मत्तजदबालानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥

[१७५] नारद-कात्यायनौ ।

लेख्ये देशान्तरं नीते दग्धे दुर्लिखिते कृते ।
समस् तत्कालहरणम् असतो द्रष्टृदर्शनम् ॥

[१७६] समस् तत्कालहरणम् इति, देशान्तरादौ विद्यमाने लेख्ये तदानयनं यावत्, अविद्यमाने च तल्लेख्यदर्शितपुरुषदर्शनं यावत् प्रतीक्षणीयम् इत्य् अर्थः ।

कात्यायनः ।

यल् लेख्यं प्राड्विवाकेन न दृष्टं न प्रतिश्रुतम् ।
अलब्धर्णे कृते लेख्ये कथं तत् प्राप्नुयाद् धनी ॥
आधानम् उपरुद्धो वा यावत् तिष्ठति लग्नकः ।
लेख्यालाभात् स्मृतं तावत् प्रमाणं द्रष्टृदर्शनम् ॥

यल् लेख्यम् इत्यादि । यल् लेख्यं दर्शनीयम् इति प्रतिश्रुतं तत् प्राड्विवाकेन न दृष्टम्, तस्मिन् कृते कथम् अलब्धधनो धनं प्राप्नुयाद् इत्य् अर्थः ।

[१७७]