अथ लेख्यबलम्
तत्र बृहस्पतिः [६.४९] ।
कुलश्रेणिगणादीनां यथाकालं प्रदर्शयेत् ।
श्रावयेत् स्मारयेच् चैव यथा स्याद् बलवत्तरम् ॥
नारदः [४.१४०] ।
दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥
कात्यायनः [२९८–३०३] ।
दृष्टं पत्रे स्फुटं दोषं नोक्तवान् ऋणिको यदि ।
ततो विंशतिवर्षाणि कालं [श्रान्तं] पत्रं स्थिरं भवेत् ॥
शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
वर्षाणि विंशतिं यावत् तत् पत्रं दोषवर्जितम् ॥
[१७१]
अथ वा विंशतिं वर्षाण्य् आधिर् भुक्तस् तु निश्चितः ।
तेन लेख्येन तत्सिद्धिर् लेख्यदोषविवर्जिता ॥
सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रयोक्तव्या यावद् वर्षाणि विंशति ॥
आधानसहितं यत्र ऋणं लेख्यनिवेशितम् ।
मृतसाक्षिप्रमाणात् तु स्वल्पभोगेन तद् विदुः ॥
प्राप्तं वानेन चेत् किंचिद् देयं चार्थनिरूपितम् ।
विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥
व्यासः ।
स्वहस्तकाज् जानपदं तस्माच् च नृपशासनम् ।
प्रमाणतरम् इष्टं हि व्यवहारार्थम् आगतम् ॥
[१७२] > द्वित्रिलिपिज्ञः स्वकृतम् अन्यलेख्येन युक्तिभिः ।
कुर्याच् च सदृशं लेख्यं तस्माज् जानपदं शुभम् ॥
अप्रकाशात् साक्षियुक्तं लेखकाक्षरमुद्रितम् ।
लोकप्रसिद्धं स्वकृताद् धीनम् अन्यकृतं शुभम् ॥
देशाध्यक्षादिना लेख्यं पत्रं जानपदं कृतम् ।
समकालं पश्चिमं वा तत्र राजकृतं शुभम् ॥
“स्वहस्तात्” स्वहस्तकृतात् लेख्यात् ।
संवर्तः ।
लेख्ये लेख्यक्रिया प्रोक्ता वाचिके वाचिकी मता ।
वाचिकी तु न सिध्येत् सा लेख्यस्योपरि या कृता ॥
लेख्यस्योपरि यत् साक्ष्यं कूटं तद् अभिधीयते ।
अर्धम् अस्य हि तद्द्वारम् अतो राजा विवर्जयेत् ॥
[१७३]
वाचिकैर् यदि सामर्थ्यम् अक्षराणां विहन्यते ।
क्रियाणां सर्वनाशः स्याद् अनवस्था च जायते ॥
“लेख्ये लेख्यक्रिया प्रोक्ता” बलीयसीति शेषः । “वाचिकी” साक्षिक्रिया अत्रापि बलीयसीति शेषः । “लेख्यस्योपरि” क्रिया, लेख्यक्रियाविरोधिनी या क्रिया न सा प्रमाणम् इत्य् अर्थः ।
कात्यायनः [३०६–३०७] ।
न दिव्यैः साक्षिभिर् वापि हीयते लिहितं क्वचित् ।
लेख्यधर्मः सदा श्रेष्ठो ह्य् अतो नान्येन हीयते ॥
तद्युक्तिप्रतिलेख्येन तद्विशिष्टेन वा मता ।
लेख्यक्रिया निरस्येत न साक्षिशपथैः क्वचित् ॥
१७४]