अथ दूषितलेख्यपरीक्षा
[तत्र] कात्यायनः [२७६, ३२३] ।
साक्षिलेख्यककर्तारं कूटतां यान्ति ते यथा ।
तथा दोषाः प्रयोक्तव्या दुष्टैर् लेख्यं प्रदुष्यति ॥
आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् ।
तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥
“आहर्ता” गृहीता ।
बृहस्पतिः [६.३९] ।
उद्धरेल् लेख्यम् आहर्ता तत्सुतो भुक्तिम् एव तु ।
अभियुक्तः पर्मीतश् चेत् [तत्पुत्रो ऽपि समुद्धरेत्] ॥
ऽयद्य् आहर्ताभियुक्तः सन् म्रियेत तदा पुत्रो ऽपि लेख्यम् उद्धरेद् इत्य् अर्थः ।
कात्यायनः [२६६, ३०८] ।
राजाज्ञया समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥
[१६६]
दर्पणस्थं यथा बिम्बम् असत् सद् इव दृश्यते ।
तथा लेख्यस्य बिम्बानि कुर्वन्ति कुटिला नराः ॥
व्यासः [बृहस्पतिः ६.४१] ।
लेख्यम् आलेख्यवत् केचिल् लिखन्ति कुशला नराः ।
तस्मान् न लेख्यसामर्थ्यात् सिद्धिर् ऐकान्तिकी मता ॥
बृहस्पतिः [६.४०, ४२–४४] ।
श्रुत्वा कालं देशकार्यौ कुशलाः कूटकारकाः ।
कुर्वन्ति सदृशं लेख्यं तद् यत्नेन विचारयेत् ॥
स्त्रीबालार्तान् लिप्यविजान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस् ततः ॥
त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत् ततः ॥
[१६७]
उज्जामम् उदयादानाद् आधानं फलसंग्रहात् ।
प्रतियोगिधनाढ्यत्वाज् ज्ञेये यत्नोपधिः कृतः ॥
“उज्जामम्” ऋणम् । “उदयादानात्” कालान्तरग्रहणात् । “आधानम्” आधिः । “फलसंग्रहात्” फलोपभोगात् । “प्रयोगित्वम्” उत्तमर्णत्वम् ।
नारदः [४.१४३–१४४] ।
यस्मिन् स्यात् संशयो लेख्ये भूताभूतकृते क्वचित् ।
तत् स्वहस्तक्रियाचिह्नयुक्तिप्राप्तिभिर् उद्धरेत् ॥
लेख्यं यच् चान्यनामाङ्कं हेत्वन्तरकृतं भवेत् ।
विप्रत्यये परीक्ष्यं तत् संबन्धागमबेतुभिः ॥
“क्रिया” तु साक्ष्योपन्यासः । “चिह्नम्” असाधारणं स्वीकारादि । “युक्तिप्राप्तिः” अस्मिन् देशे अस्मिन् काले प्रयुज्यते तस्य पुरुषस्येदं द्रव्यम् इत्यादिरूपा । “विप्रत्यये” विप्रतिपत्तौ । संबन्धो ऽत्रार्थिप्रत्यर्थिनोः परस्परविश्वासेन पूर्वम् अपि धनग्रहणादिसंबन्धः । “आगमः” अस्यैतावतो धनस्य संभावितः प्राप्नुयाद् य इति । एतैः स्वहस्तादिभिः कारणैः संदिग्धं लेख्यं साधयेद् इत्य् अर्थः ।
व्यासः ।
यच् चान्यस्य कृतं लेख्यम् अन्यहस्तेषु दृश्यते ।
अवश्यं तेन वक्तव्यं पत्रस्यागमनं ततः ॥
[१६८] कात्यायनः [२७७, २९०, २८५, २८६] ।
न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा ।
एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥
कूटोक्तौ साक्षिणां वाक्याल् लेखकस्य च पत्रकम् ।
नयेच् छुद्धिं न यः कूटं स दाप्यो दमम् उत्तमम् ॥
अथ पञ्चत्वम् आपन्नो लेखकः सह साक्षिभिः ।
तत् स्वहस्तादिभिस् तेषां विशुध्येत् तु न संशयः ॥
ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत् स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥
तथा [२८७] ।
समुद्रे ऽपि यदा लेख्ये मृताः सर्वे ऽपि तत्स्थिताः ।
लिखितं तत्प्रमाणं तु मृतेष्व् अपि हि तेषु वै ।
प्रजापतिः ।
कार्यो बलेन महता निर्णयो राजशासने ।
राज्ञः स्वहस्ततो मुद्रालेखकाक्षरदर्शनात् ॥
[१६९] कात्यायनः [२९६, २९४, २९६] ।
मुद्राशुद्धं क्रियाशुद्धं पारम्पर्यानुमोदितम् ।
[अदूषितं च स्पृष्टं च क्रियाचित्रं विभावितम् ।]
ईदृशं सिद्धिम् आप्नोति शासनं नृपचिह्नितम् ॥
पश्चात्कारनिबद्धं यत् तद् यत्नेन विचारेयेत् ।
यदि स्याद् युक्तियुक्तं तु प्रमाणं लिखिते तदा ॥
अन्यथा मूलतः कार्यं पुनर् एव विनिर्णयेत् ।
अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् ।
निवर्त्यं तत्पर्माणं स्याद् यत्नेनापि कृतं नृपैः ॥
“क्रियाशुद्धम्” साक्ष्यनुगृहीतम् । “पारम्पर्यानुमोदितम्” बहुभिर् अनुमोदितम् ।
[१७०]