३० — दुष्टलेख्यम्
[तत्र] कात्यायनः [२७३–२७४] ।
साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा ।
धनिकस्योपधादोषात् तथा दारणिकस्य वा ॥
दुष्टैर् दुष्टं भवेद् लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ।
तत् पत्रम् उपधादुष्टैः साक्षिलेखककारकैः ॥
“उपधा” भावदोषः ।
बृहस्पतिः [६.३०] ।
मुमूर्षुशिशुभीतार्तैः स्त्रीमत्तव्यसनातुरैः ।
निशोपधिबलात्कारकृतं लेख्यं न सिध्यति ॥
नारदः [४.१३७] ।
मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
तद् अप्रमाणं लिखितं भीतोपधिकृतं तथा ॥
[१६४] कात्यायनः [२८१, २७०] ।
धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् ।
भवेत् कूटं न चेत् कर्ता कृतं हीति विभावयेत् ॥
देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥
बृहस्पतिः [६.३१–३२] ।
दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।
कूटलेख्यं तु तत् प्रोक्तं लेखको वापि तद्विधः ॥
यद् उज्ज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।
भग्नोन्मृष्टाक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥
कात्यायनः [२६९] ।
स्थानभ्रष्टास् त्व् अपङ्क्तिस्थाः संदिघा लक्षणच्युताः ।
यत्रैवं स्युः स्थिता वर्णाः लेख्यं दुष्टं तथा भृगुः ॥
व्यासः [कात्यायन ३११] ।
स्थावरे विक्रियाधाने कूटं लेख्यं करोति यः ।
स सम्यग् भावितः कार्ये जिह्वापाण्यङ्घ्रिवर्जितः ।
[१६५]