अथ सल्लेख्यम्
तत्र कात्यायनः [२५२] ।
लेख्यं तु साक्षिमत् कार्यम् अविलुप्तक्रमाक्षरम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥
नारदः [३.१३६] ।
देशाचाराविरुद्धं यद् व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥
“व्यक्ताधिविधिलक्षणम्”(?) स्पष्टं वञ्चकप्रमाणलक्षणं यत्र तत् तथा ।
कात्यायनः [२५३, २६७] ।
वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत् सिद्धिम् आप्नुयात् ॥
याज्ञवल्क्यः [२.८९] ।
विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत् प्रमाणं स्मृतं सर्वं बलोपधिकृताद् ऋते ॥
“उपधिश्” छलम् ।
[१६२] कात्यायनः [२७२] ।
ख्यापितं चेद् द्वितीये ऽह्नि न कश्चिद् विनिवर्तयेत् ।
तथा तु स्यात् प्रमाणं तन् मत्तोन्मत्तकृताद् ऋते ॥
याज्ञवल्क्यः [२.९१] ।
देशान्तरस्थे दुर्लेख्ये तथोन्मृष्टे हृते तथा ।
भिन्ने दग्धे तथा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥
कात्यायनः [३१२] ।
मलैर् यद् भेदितं दग्धं छिद्रितं वीतम् एव वा ।
तद् अन्यत् कारयेल् लेख्यं स्वात्मना लिखितं तथा ॥
[१६३]