अथ शासनम्
तत्र व्यासः ।
राज्ञा तु स्वयम् आदिष्टः संधिविग्रहलेखकः ।
ताम्रपट्टे पटे वापि प्रलिखेद् राजशासनम् ॥
स्थानं वंशानुपूर्वी च देशं ग्रामम् उपागतान् ।
ब्राह्मणांश् च तथा चान्यान् मान्यान् यान् अधिकृतान् लिखेत् ॥
कुटुम्बिनो ऽथ कायस्थदूतवैद्यमहत्तरान् ।
म्लेच्छचाण्डालपर्यन्तान् सर्वान् संबोधयन्न् इति ॥
मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।
दत्तं मयामुकीयाय दानं सब्रह्मचारिणे ॥
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयागतम् ।
अनाच्छेद्यम् अनाहार्यं सर्वभाव्यविवर्जितम् ॥
[१५८]
दातुः पालयितुः स्वर्गं हर्तुर् नरकम् एव च ।
ज्ञातं मयेति लिखितं तदा व्यक्ताक्षरैर् युतम् ॥
अब्दमासतदर्हाहो राजमुद्राङ्कितं तथा ।
अनेन विधिना लेख्यं राजशासनकं लिखेत् ॥
स्थानम् अत्र राजधानी । “उपागतान्” तत्काल आगन्तुकान् । “सब्रह्मचारिणे” सहाध्यायिने । एतच् च पात्रमात्रोपलक्षणम् । “सर्वभाव्यविवर्जितम्” दैवब्राह्मणनापितादिलभ्यवर्जितम् ।
याज्ञवल्क्यः [१.३१८–३२०] ।
दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥
[१५९] “निबन्ध” आयस्थाने शुल्कशालादौ प्रत्यहं नियतवस्तुदानम्, यथा पर्णभारकं प्रति पर्णशतं ग्राह्यं त्वयेति ॥
बृहस्पतिः [६.२५, २७, २६] ।
वंशादिकं यस्य राजा लिखितेन प्रयच्छति ।
सेवाशौर्यादिना तुष्टः प्रसादलिखितं तु तत् ॥
यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्रे ऽखिलं लिखेत् ॥
पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।
प्रदद्याज् जयिने लिख्यं जयपत्रं तद् उच्यते ॥
वृद्धवसिष्ठः ।
यथोपन्यस्तसाध्यार्थसंयुक्तं चोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रकम् इष्यते ॥
प्राड्विवाकादिनामाङ्कं मुद्रितं राजमुद्रया ।
[१६०] कात्यायनः [२५९, २६०(अ), २६३, २६०(अ), २६१, २६४] ।
अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा ।
निर्णयश् च यथा तस्य यथा चावधृतं स्वयम् ॥
एतद् यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।
सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ॥
यथालेख्यविधौ तद्वत् स्वहस्तं तत्र दापयेत् ।
अभियोक्त्रभियुक्तानां वचनं प्राङ् निवेशयेत् ॥
सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥
अनेन विधिना लेख्यं पश्चात्कारं विदुर् बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ॥
पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥
“पश्चात्कारो” जयपत्रम् ।
[१६१]