२७ लिखितम्

अथ लिखितम्

तत्र बृहस्पतिः ।

साक्षिणाम् एष निर्दिष्टः संख्यालक्षणनिश्चयः ।
लिखितस्याधुना वच्मि विधानम् अनुपूर्वशः ॥
षाण्मासिके ऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्य् अतः पुरा ॥
राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।
लेख्यं तु त्रिविधं प्रोक्तं भिन्नं तद् बहुधा पुनः ॥
भागदानक्रयाधानसंविद्दासऋणादिभिः ।
सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥

मरीचिः ।

स्थावरे विक्रयाधाने विभागे दान एव च ।
लिखितेनाप्नुयात् सिद्धिम् अविसंवादम् एव च ॥
सिध्यते वाचिको ऽप्य् आधिः स्थावरे च दशाब्दिकः ।
प्रतिग्रहे च क्रीते च नालेख्या सिध्यति क्रिया ॥

[१५३] स्थावर इति । क्षेत्रादिविषये विक्रयादीनां लेख्यं विना सिद्धिर् न भवतीत्य् अर्थः । सिध्यते वाचिको ऽपीत्याडि । स्थावरेषु विषये आधिर् दशवर्षपर्यन्तम् उपभुक्तः स तथा वाचिको ऽपि लेख्यं विनापि सिध्यतीत्य् अर्थः ।

कात्यायनः [२५७, ३०१] ।

सीमाविवादे निर्वृत्ते सीमापत्रं विधीयते ।

नारदः [४.१३५] ।

लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥

“तयोः” ससाक्षिकासाक्षिकयोर् देशाचाराद्यवस्थितिर् इत्य् अर्थः ।

विष्णुः [७.१–३]- ऽअथ लेख्यं [त्रि]विधम् । राजसाक्षिकं ससाक्षिकम् असाक्षिकं च" ।

राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकम् ।

कात्यायनः [२५८] ।

राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥

[१५४] विष्णुः [७.४–५]- ऽयत्र क्वचन येन केनचिल् लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकम् । स्वहस्तलिखितम् असाक्षिकम्" ।

बृहस्पतिः ।

भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तद् उच्यते ॥
भूमिं दत्वा तु यः पत्रं कुर्याच् चन्द्रार्ककालिकम् ।
अनाच्छेद्यम् अनाहार्यं दानलेख्यं तु तद् विदुः ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यस् तु क्रयलेख्यं तद् उच्यते ॥
जङ्गमं स्थावरं बन्धं दत्वा लेख्यं करोति यः ।
गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तु तत् स्मृतम् ॥
ग्रामो देशश् च यः कुर्यान् मतं लेख्यं परस्परम् ।
राजाविरोधिधर्मार्थे संधिपत्रं वदन्ति तत् ॥
वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यः ।
कर्माणि तु करिष्यामि दासपत्रं तद् इष्यते ॥
धनं वृद्ध्या गृहीत्वा तु स्वयं कुर्याच् च कारयेत् ।
उज्जामपत्रं तत् प्रोक्तम् ऋणलेख्यं मनीषिभिः ॥

[१५५]

देशाचारयुतं वर्षमासपक्षाहवृद्धिमत् ।
ऋणिसाक्षिलेखकानां हस्ताङ्कं लेख्यम् उच्यते ॥

“अनाहार्यम्” अभोग्यम् । “कान्तारे” आपदि । “उज्जामपत्रम्” ऋणपत्रम् ।

याज्ञवल्क्यः [२.८४–८८] ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं वा साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥
समामासतदर्धाहर्नामजातिसगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥
मासे वर्षे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मे ऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥
साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥
उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखको ऽन्ते ततो लिखेत् ॥

[१५६] “निष्णातः” निरूपितः । “सब्रह्मचारिकम्” बह्वृचादि[शाखा]प्रयुक्तगुणनाम । “बह्वृचः” कठ इति । “समाः” समगुणाः ।

व्यासः [याज्ञ। २.९०] ।

अलिपिज्ञऋणी यः स्याल् लेखयेत् स्वमतं तु सः ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपगः ॥

कात्यायनः [२५१] ।

उत्पत्तिजातिसंज्ञां च धनसंज्ञां च लेखयेत् ।
स्मरत्य् एवं प्रयुक्तस्य नश्येद् अर्थस् त्व् अलेखितः ।

स्मरत्य् एवं प्रयुक्तस्येति कर्मणिषष्ठी । तेनैवं प्रयुक्तं स्मरति नान्यद् इत्य् अर्थः ।

[१५७]