अथ साक्षिनिगदः
तत्र व्यासः ।
कालाकृतिवयोद्रव्यदेशजातिप्रमाणतः ।
अन्यूनं चेन् निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥
विष्णु-याज्ञवल्क्यौ ।
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥
[१५१]
अनिगदः
अथानिगदः
[तत्र] नारदः [४.२३२–२३४] ।
निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्यम् आगतः ।
न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥
देशकालवयोद्रव्यप्रमाणाकृतिजातिषु ।
तत्र विप्रतिपत्तिः स्यात् साक्ष्यं तद् अपि कुत्सितम् ॥
न्यूनम् अभ्यधिकं चार्थं प्रब्रूयुर् यत्र साक्षिणः ।
तद् अप्य् अनुक्तं विज्ञेयम् एष साक्षिविधिः स्मृतः ॥
[१५२]