अथ साक्षिबलत्वम्
तत्र मनुः [८.७३] ।
बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥
बृहस्पतिः [५.४६] ।
साक्षिद्वैधे प्रभूताः स्युर् ग्राह्याः साम्ये गुणान्विताः ।
गुणिद्वैधे क्रियायुक्तास् तत्साम्ये स्मृतिमत्तराः ॥
नारदः [४.२२९] ।
साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये गुणिनो ग्राह्यास् तत्साम्ये स्मृतिमत्तराः ॥
[१४९] याज्ञवल्क्यः [२.७८] ।
द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥
तथा [२.८०] ।
उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तराः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥
कात्यायनः [४०८] ।
यत्र वै भावितं कार्यं साक्षिभिर् वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत् कार्यम् अन्यथा ॥
बहुभिश् च कुलीनैर् वा कूटाः स्युः पूर्वसाक्षिणः ।
[१५०]