२४ — सत्यापवादः
तत्र वसिष्ठः [विष्णुः ८.१४–१५]- ऽसाक्षिणः सत्येन पूयन्ते । वर्णिनां यत्र वधस् तत्रानृतेन" ।
मनुः [८.१०४, १०३] ।
शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥
तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्यथा नरः ।
न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥
“ऋतोक्तौ” सत्यवचने ।
गौतमः [१३.२४, २५]- ऽनानृतवचने दोषो जीवनं चेत् तदधीनम् । न तु पापीयसो जीवनम्" ।
“पापीयसः” स्तेनादेः यत्रानृतवचनेन जीवनं संपद्यते तत्रानृतं न वक्तव्यम् ।
[१४७] याज्ञवल्क्यः [२.८३] ।
वर्णिनां हि वधो यत्र तत्र सक्ष्य् अनृतं वदेत् ।
तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥
विष्णुः [८.१६१७]- ऽतत्पावनाय कूष्माण्डीभिः [द्विजो ऽग्निं] जुहुयात् । शूद्रश् चैकाह्णिकं गोदशकस्य ग्रासं दद्यात्" ।
मनुः [८.१०५–१०६] ।
वाग्दैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणाओ निष्कृतिं पराम् ॥
कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा च वारुण्या तृचेनाब्दैवतेन वा ॥
[१४८]