अथ साक्षिदण्डह्
तत्र कात्यायनः [४०६] ।
उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्च्छलान्विताः ॥
मनुः [८.११८–१२३] ।
लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥
एषाम् अन्यतमः स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥
लोभात् सहस्रं दण्डस् तु मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्ड्यौ मैत्यात् पूर्वचतुर्गुणम् ॥
कामाद् दशगुणं प्रोक्तं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानात् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥
एतान् आहुः कूटसाक्ष्ये प्रोक्तो दण्डो मनीषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥
[१४२]
कूटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणांस् तु विवासयेत् ॥
“सहस्रम्” पणानाम् इति शेषः । “मोहात्” वैचित्र्यात्, “पूर्वसाहसः” सार्धं पणशतद्वयम् । “द्वौ मध्यमौ” साहसाव् इत्य् अर्थः । पणसहस्रम् इत्य् उक्तं भवति । पूर्वसाहसचतुर्गुणः पणसहस्रम् इत्य् उक्तं भवति । “त्रिगुणं परम्” पूर्वापेक्षया परो मध्यमसाहसस् तस्मिंस् त्रिगुणे पञ्चदशशतानि संपद्यन्ते । “अज्ञानात्” व्यवहारकाल एव विपरीतज्ञानात् । “बालिश्यम्” अत्र प्राप्तयौवनमात्रम्, न बाल्यम्, बालस्य सक्ष्यनिषेधात् । “विवासयेत्” स्वदेशान् निःसारयेत् ।
विष्णुः [५.१७९]- ऽकूटसाक्षिणां सर्वस्वहारः [कार्यः]" ।
याज्ञवल्क्यः [२.८१–८२] ।
पृथक् पृथक् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादात् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥
यः साक्ष्ये श्राविते ऽन्येभ्यो निह्नुते तत् तमोवृतः ।
स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥
[१४३] मनु-नारदौ ।
यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥
याज्ञवल्क्यः [२.७६] ।
अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः षाट्चत्वारिंशत्तमे ऽहनि ॥
“सदशबन्धकम्” दशमांशसहितम् ।
मनुः [८.१०३] ।
त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं पाप्नुयात् सर्वं दशबन्धं तु सर्वशः ॥
विष्णुः [८.३७] ।
पारयन्तो ऽपि ये साक्ष्ये तूष्णीं भूता उपासते ।
ते कूटसाक्षिणां पापैस् तुल्या दण्डेन चैव हि ॥
[१४४] कात्यायनः [४०५] ।
साक्षी साक्ष्यं न चेद् ब्रूयात् समदण्डं वहेद् ऋणम् ।
अतो ऽन्येषु विवादेषु त्रिशतं दण्डमर्हति ॥
बृहस्पतिः [५.४५, ४७] ।
आहूतो (?) यस् तु नागच्छेत् साक्षी रागविवर्जितः ।
ऋणं दमं च दाप्यः स्यात् त्रिपक्षात् परतस् तु सः ॥
अपृष्टाः सत्यवचने प्रश्णस्याकथने तथा ।
साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश् च धर्मतः ॥
गुअतमः [१३.५]- ऽब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोध्यो ऽनिबद्धश् चेत्" ।
“अनिरुद्धः” पत्रके ऽअनवरोपितः ।
[१४५] कात्यायनः [३४२] ।
सम्यक् क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं तु सद्यःपृष्टान् विवादयेत् ॥
“सम्यक् क्रियापरिज्ञाने” सम्यक् कार्यज्ञानार्थम् ।
मनुः [८.७५] ।
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।
अवाङ् नरकम् आप्नोति प्रेत्य स्वर्गाच् च हीयते ॥
कात्यायनः ।
अवीचि नरके कल्पं वसेयुः कूटसाक्षिणः ।
गौतमः [१३.७–८]- अवचने दोषिणः स्युः । स्वर्गः सत्यवचने, विपर्यये नरकः" ।
[१४६]