२२ साक्षिपरीक्षा

अथ साक्षिपरीक्षा

कात्यायनः [३४०, ४०९] ।

उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर् भाषितं वाक्यं सह सभ्यैः परीक्षयेत् ॥
यदा शुद्धा क्रिया पाल्या तदा तद्वाक्यशोधनम् ।
शुद्धार्थवाक्याद् यः शुद्धः स शुद्धार्थो ऽन्यथा न तु ॥

“क्रिया” अत्र साक्षिरूपं प्रमाणम् ।

बृहस्पतिः [५.४३] ।

उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ।

**[१३९] **

तत्र कूटसाक्षिणः

शङ्खलिखितौ- ऽमन्त्रिभिः शास्त्रसामर्थ्याद् दुष्टलक्षणं ग्राह्यम् । तिर्यक् प्रेक्षते, समन्ताद् एवावलोकयति, अकस्मात् मूत्रपुरीषं विसृजति, देशाद् देशं गच्छति, पाणिना पाणिं पीडयति, नखान् निकृन्तति, मुखम् अस्य विवर्णताम् एति, प्रस्विद्यति चास्य ललाटम्, चक्षुर् वाचं न प्रतिपूजयति, अकस्माद् ददाति, प्रशंसति, पुनः पुनः अन्यम् अपनुदति, बहिर् निरीक्षति, शास्त्रं परआमृशति, [शोकम् उपवर्णयति], भूमिं विलिखति, शिरः प्रकम्पयति, ओष्ठौ निर्भुजति, सृक्किणी परिलेढि, अविस्मितः कर्मसु महत्सु भ्रुवौ संहरति, हसति, तूष्णीं ध्यायति, पूर्वापरविरुद्धं व्याहरति, एवमादि दुष्टलक्षणम् । क्रुद्धस्य च स्वामिनो ऽन्यत्र प्रकृतिशीलात् । तत्र राजमूला व्यवहाराः" ।

क्रुद्धस्य चेति क्रोधाविष्टस्यापि राज्ञो मन्त्रिभिर् एतान्य् एव चिह्नानि गृहीतव्यानि । “अन्यत्र प्रकृतिशीलात्” स्वभावत एव य एवंविधः तद्व्यतिरेकेणैतानि दुष्टस्य लक्षणानि । राजक्रोधावधारणे प्रयोजनम् आह – “राजमूला व्यवहाराः” । यत् इति शेषः ।

[१४०]

नारदः [४- १९३–१९८] ।

यस् त्व् आत्मदोषदुष्टत्वाद् अस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेद् एकैकं चानुधावति ॥
कासत्य् अकस्माच् च भृशम् आभीक्ष्णं निश्वसत्य् अपि ।
विलिखत्य् अवनिं पद्भ्यां बाहू वासश् च धूनयेत् ॥
भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते यथा ।
शोषम् आगच्छतश् चौष्ठौ ऊर्ध्वं तिर्यक् च वीक्षते ॥
त्वरमाण इवा[विद्धम् अपृष्टो] बहु भाषते ।
कूटसाक्षी स विज्ञेयस् तं पापं विनयेद् भृशम् ॥
श्रावयित्वा तथान्येभ्यः साक्षित्वं यो ऽपनिह्नुते ।
स विनेयो भृशतरं कूटसाक्ष्यधिको हि सः ॥

“आविद्धम्” आकुलम् ।

[१४१]