अथ सक्ष्योक्तविधिः
तत्र कात्यायनः [३८७, ३९१] ।
सभान्तस्थैस् तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ऽन्यत्र स्यात् स्थावरेषु च ॥
वधे च प्राणिनां साक्ष्यं वादयेच् छिवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यत्रैवं प्रवादयेत् ॥
अनुद्विग्नेन चित्तेन दृष्टं सम्यग् यदा तु यत् ।
प्रत्यक्षं तत् स्मृतं कार्यं साक्षी साक्ष्यं तु तद् वदेत् ॥
“तदभावे” शिवाभावे । “चिह्नस्य” अस्थिकेशादेः संनिधाव् इत्य् अर्थः ।
बृहस्पतिः [५.४२] ।
विहायोपानदुष्णीषं दक्षिणं पाणिम् उद्धरेत् ।
हिरण्यं गोशकृद्दर्भान् समादाय ऋतं वहेत् ॥
गौतमः [१३.६]- ऽनासमवेता अपृष्टाः प्रब्रूयुः" । “असमवेताः” अमिलिताः ।
[१३७] कात्यायनः [३९४–३९५] ।
समवेतैस् तु यद् दृष्टं वक्तव्यं तैस् तथैव तत् ।
विभिन्नैर् नैककार्थं च वक्तव्यं तत् पृथक् पृथक् ॥
भिन्नकाले तु यत् कार्यं विज्ञातं तत्र साक्षिभिः ।
एकैकं वादेयेत् तत्र भिन्नकालं तु तद् भृगुः ॥
नापृष्टैर् अनियुक्तैर् वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानम् आगतैः ॥
नैककार्यम् इति । अनेककार्यम् इत्य् अर्थः । “अनियुक्तैः” साक्षित्वेन अनुपन्यस्तैः ।
बौधायनः [१.२०.२९]- ऽलोकाः प्रतिग्रहार्थं यथादृष्टं यथाश्रुतं साक्ष्यं ब्रूयुः" ।
मनुः [८.७४] ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ।
कात्यायनः [३९३] ।
स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा प्रष्टव्या न पुनः पुनः ॥
इति साक्षिवादविधिः
[१३८]