अथ साक्षिशपथः
तत्र गौतमः- ऽशपथेनैके सत्यकर्म । तद् देवराजब्राह्मणसंसदि स्यात् अब्राह्मणानाम्" ।
“सत्यकर्म” सत्ये व्यवस्थापनम् ।
शङ्खलिखितौ- ऽसाक्षिणः सुवर्णरजतरत्नगोधान्यसूर्याग्निगजस्कन्धाश्वपृष्टरथोपस्थ-शस्त्रादिभिस् तथा पुत्रपौत्रैर् यथावर्णं परिग्रहविशेषतः स्याद् देवब्राह्मणस्वामिनाम् अग्रतः" ।
सुवर्णादिस्पर्शनेन, सूर्यादिदर्शणेन, शापयेद् इति शेषः । तथा पुत्रपौत्रैर् इति । पुत्रपौत्रशिरःस्पर्शनेन स्वल्पे ऽर्थे शापयेद् इत्य् अर्थः । यथावर्णम् इति । यस्य वर्णस्य यद्द्रव्यस्पर्शनेन शपथा आम्नातः, स्मृत्यन्तरे स तेनैव कारयितव्य इत्य् अर्थः ।
[१३१] नारदः [४.१९९] ।
सत्येन श्रावयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
सत्येन श्रावयेत् विप्रम् इत्य् अपकृष्टब्राह्मणविषयम्, न ब्राह्मणमात्रविषयम् । तस्य गौतमेन शपथनिषेधात् । “श्रावयेत्” शापयेद् इत्य् अर्थः ।
मनुर् नारदश् च षष्ठे ।
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस् तु पातकैः ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम् ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥
जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥
एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥
[१३२]
यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥
नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
क्रुद्धः शत्रुगृहं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥
अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥
अन्धो मत्स्यान् इवाश्नाति निरपेक्षः सकण्टकान् ।
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते ।
तस्मान् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥
मनु-नारदौ ।
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिञ् छृणु सौम्यानुपूर्वशः ॥
[१३३]
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥
मनुः [८.१००–१०१] ।
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥
पशुवत् क्षौद्रघृतयोर् यानेषु च तथाश्ववत् ।
गोवद् रजतवस्त्रेषु धान्ये ब्रह्मणि चैव हि ॥
एतान् दोषान् अवेक्षस्व सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं सत्यम् एवाञ्जसा वद ॥
“अब्जेषु रत्नेषु” मुक्ताप्रवालादिषु (?) । “ब्रह्मणि” वेदे ।
नारदः [४.२१६–२२४] ।
सत्यं ब्रूह्य् अनृतं त्यक्त्वा सत्येन स्वर्गम् एष्यसि ।
उक्त्वानृतं महाघोरं नरकं प्रतिपत्स्यसे ॥
[१३४]
नरकेषु च ते शश्वज् जिह्वाम् उत्कृत्य दारुणाः ।
असिभिः शातयिष्यन्ति बलिनो यमकिङ्कराः ॥
शनैर् भेत्स्यन्ति चाक्रम्य क्रोशन्तम् अपरायणम् ।
अवाक्च्छिरसम् उत्क्षिप्य क्षेप्स्यन्त्य् अग्नौ ह्रदेषु च ॥
अनुभूय सुदुःखांस् तांश् चिरं नरकवेदनाः ।
इह यास्यस्य् अभव्यासु गृध्रकाकादियोनिषु ॥
ज्ञात्वैतान् अनृते दोषान् तथा सत्येषु सद्गुणान् ।
सत्यं वदोद्धरात्मानं नात्मानं पातय स्वयम् ॥
न बान्धवा न सुहृदो न धनानि महान्त्य् अपि ।
अलं धारयितुं सर्वे तमस्य् उग्रे निमज्जतः ॥
पितरस् त्व् अवलम्बन्ते त्वयि साक्षित्वम् आगते ।
तारयिष्यति किं वास्मान् किं वास्मान् पातयिष्यति ॥
सत्यम् आत्मा मनुष्यस्य सत्ये सर्वं प्रतिष्ठितम् ।
सर्वथैवात्मनात्मानं श्रेयस्य् एव नियोजय ॥
[१३५]
यां रात्रिम् अजनिष्ठास् त्वं यां च रात्रिं मरिष्यसि ।
वृथा तदन्तरं ते स्यात् साक्ष्यं चेद् अन्यथा वदेः ॥
याज्ञवल्क्यः [२.७५] ।
सुकृतं यत् त्वया किंचिज् जन्मान्तरश्तैः कृतम् ।
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥
मनुः [८.१०२] ।
गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥
ये व्यपेताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकाङ्क्षन्ति तांश् च शूद्रवद् आचरेत् ॥
एते ब्राह्मणा अपि सन्तः साक्ष्ये शूद्रवद् एव शपथं कारयितव्या इत्य् अर्थः ।
इति साक्षिशपथः
[१३६]