१९ साक्षिश्रावणम्

अथ साक्षिश्रावणम्

तत्र कात्यायनः [३३९] ।

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।
महान् दोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥

नारदः [४.१९८] ।

आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक् पृथक् ॥

विष्णुः [८.१९]- ऽसाक्षिणश् चाहूय आदित्योदये कृतशपथान् पृच्छेत" ।

कात्यायनः [३८८–३९०] ।

अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ ।
प्रत्यक्षं चोदयेत् साक्ष्यं न परोक्षं कथंचन ॥
अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् ।
चतुष्पदेष्व् अयं धर्मो द्विपदस्थावरेषु च ॥

१२४]

तौल्यगणिममेयानाम् अभावे ऽपि हि वाद्येत् ।
क्रियाकारेषु सर्वेषु साक्षित्वं न ततो ऽन्यथा ॥

“तौल्यम्” सुवर्णादि । “गणिमम्” कपर्दकादि । “मेयम्” व्रीह्यादि । “क्रियाकारेषु” व्यवहारेषु ।

मनुः [८.८७, ७९–८६] ।

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वा शुचिः शुचीन् ॥
सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राङ्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥
यद् वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति पुष्कलान् ।

[१२५]

इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥
साक्ष्ये ऽनृतं वदन् साक्षी पाशैर् बध्येत वारुणैः ।
विवशः शतम् आजातीस् तस्मात् साक्ष्ये वदेद् ऋतम् ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥
आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थाः स्वम् आत्मानं नृणां साक्षित्वम् उत्तमम् ॥
मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।
तांश् च देवाः प्रपश्यन्ति स्वश् चैवान्तरपूरुषः ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥

“सभान्तः” सभामध्ये । “अनुयुञ्जीत” पृच्छेत् । ऽशतम् आजातीः" शतं जन्मानि ।

याज्ञवल्क्यः [२.७३–७४] ।

साक्षिणः श्रावयेद् वादी प्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा ॥
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
तान् सर्वान् समवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥

१२६] बृहस्पतिः ।

सत्यप्रशंसावचनैर् अनृतस्यापवर्जनैः ।
सभ्यैः संबोधनीयास् तु धर्मशास्त्रप्रवेदिभिः ॥
आ जन्मनश् चा मरणात् सुकृतं यद् उपार्जितम् ।
तत् सर्वं नाशम् आयाति अनृतस्याभिशंसनात् ॥
कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा वित्तहा चैषां नाधिकः समुदाहृतः ॥
एवं विदित्वा तत् साक्षी यथा भूतं वदेत् ततः ।
तेनेह कीर्तिम् आप्नोति परत्र च शुभां गतिम् ॥

साक्षिश्रावणे विष्णु-नारदौ [वि। ८.३६; ना। ४.२११] ।

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥

नारदः [४.२००–२०२, २०६, २१२–२१३, २२६–२२८] ।

पुराणैर् धर्मवचनैः सत्यमाहात्म्यदर्शनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् अपि ॥

[१२७]

नगरप्रतिरुद्धः सन् बहिर् द्वारे बुभुक्षितः ।
अमित्रान् भूयशः पश्येद् यः साक्ष्यम् अनृतं वदेत् ॥
यां रात्रिम् अधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स तां वसेत् ॥
साक्षी साक्ष्यसमुद्देशे गोकर्णशिथिलं चरन् ।
सहस्रं वारुणात् पाशान् आत्मनि प्रतिमुञ्चति ॥
तस्य वर्षशते पूर्णे पाश एकः प्रमुच्यते ।
एवं स बन्धनात् तस्मान् मुच्यते नियतं क्रमात् ॥
एकम् एवाद्वितीयं यत् प्राहुः पावनम् आत्मनः ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौर् इव ॥
वरं कूपशताद् वापी वरं वापीसतात् क्रतुः ।
वरं क्रतुशतात् पुत्रः सत्यं पुत्रशताद् वरम् ॥
भूर् धारयति सत्येन सत्येनोदेति भास्करः ।
सत्येन वयुः पवते सत्येनापः स्रवन्ति च ॥

[१२८]

सत्यम् एव परं धाम सत्यम् एव परं तपः ।
सत्यम् एव परो धर्मो लोकानाम् इति नः श्रुतम् ॥
सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं स्मृतम् ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥
नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
साक्षिधर्मे विशेषेण सत्यम् एव वदेत् ततः ॥
पुराणानुमतौ चात्र द्वौ श्लोकौ समुदाहृतौ ।
यौ श्रुत्वा सत्यम् एवेह सदा वाच्यं नरैर् बुधैः ॥
यः परार्थे ऽपहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्यात् स पापं नरकनिर्भयः ॥
अर्था वै वाचि नियता वाङ्मुला वाग्विनिःसृताः ।
यस् तु तां स्तेययेद् वाचं स सर्वस्तेयकृन् नरः ॥

“गोकर्णशिथिलं चरन्” गोकर्णवच् छिथिलं व्यवहरन् दृढम् अब्रुवन्न् इत्य् अर्थः ।

[१२९] बौधायनः

त्रीन् एव च पितॄन् हन्ति त्रीन् एव च पितामहान् ।
सप्तजातान् अजातांश् च साक्षी साक्ष्यं मृषा ब्रुवन् ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
सर्वं भूम्यनृते हन्ति साक्षी साक्ष्यं मृषा ब्रुवन् ॥

इति शक्षिश्रावणम्

[१३०]