१८ साक्षिदूषणम्

अथ साक्षिदूषणम्

तत्र बृहस्पतिः [५.२१] ।

साक्षिणो ऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दूषयेत् ।
अदुष्टान् दूषयन् वादी तत्समं दण्डम् अर्हति ॥

कात्यायनः [२७८, २७५] ।

नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् ।
मिथ्याभियोगे दण्ड्यः स्यात् सो ऽर्थाद् वापि प्रहीयते ॥
प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना ।
गूढास् तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥

विवादिनाविदितत्वेनानुद्भाविताः दोषाः शास्त्रप्रदर्शनेन प्रकटीकृत्य सभ्यैर् वक्तव्या इत्य् अर्थः ।

बृहस्पति-कात्यायनौ ।

लेख्यदोषाश् तु ये केचित् साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चाद् उक्तांस् तु दूषयेत् ॥

व्यासः ।

सभासदां प्रसिद्धं यल् लोकसिद्धम् अथापि वा ।
साक्षिणां दूषणं ग्राह्यम् असाध्यं दोषवर्जनात् ॥

[१२१]

अन्यैस् तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेद् दोषः तेषाम् अप्य् अन्यसंभवात् ॥

“असाध्यं दोषवर्जनात्”“असाध्यम्” साधनानर्हम्; “दोषवर्जनात्” अनवस्थादिदोषरहितत्वात् ।

बृहस्पतिः [५.२९] ।

लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न सिध्येत् तु यावन् तन् न विशोधयेत् ॥

तत् लेख्यं साक्षिणश् च प्रमाणम् इति यावत् ।

तथा [५.३०] ।

साक्षिभिर् गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यत् ।
पुनर् विवादं कुरुते तस्य राजा विचारयेत् ॥

व्यासः ।

साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे ऽभिलिखितान् सर्वान् वाच्याः प्रत्युत्तरं तु ये ।

[१२२]

प्रतिपत्तौ न साक्षित्वम् अर्हन्ति तु कदाचन ।
अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥
अभावयन् दमं दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् ।
भाविताः साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥
जितः सविनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसभ्येष्व् अवस्थितः ॥

“प्रत्युत्तरम्” उत्तरम् उत्तरं प्रति, ते दोषा वक्तव्या इत्य् अर्थः । “अन्यथा” असम्प्रतिपत्तौ ।

कात्यायनः [४०७, ३७९] ।

येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥
उक्ते ऽर्थे साक्षिणो यस् तु दूषयेत् प्राग्दूषितान् ।
न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥

[१२३]