अथ साक्षिप्रत्युद्धारः
तत्र मनु-नारदौ [म। ८.७२; ना। ४.१८९] ।
साहसेषु तु सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥
कात्यायनः [३६६–३६७] ।
व्याघातेषु नृपाज्ञायाः सङ्ग्रामे साहसेषु च ।
स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥
अन्तर्वेश्मनि रात्रौ वा बहिर्ग्रामाच् च यो भवेत् ।
एतेष्व् एवाभियोगे तु परीक्षा नात्र साक्षिणाम् ॥
मनुः [८.६९–७०] ।
अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ॥
स्त्रिया वा संभवे कार्यं बालेन स्थविरेण वा ।
शिष्येन बन्धुना वापि दासेन भृतकेन वा ॥
[११८] अनुभूतम् अनेनेत्य् अनुभावी ।
उशनाः ।
दासो ऽन्धो बधिरः कुष्ठी स्त्रीबालस्थविरादयः ।
एते ऽप्य् अनभिसंबन्धाः साहसे साक्षिणो मताः ॥
नारदः [४.१८८, १९०, १९१] ।
असाक्षिणो ये निर्दिष्टा दासनैकृतिकादयः ।
कार्यगौरवम् आसाद्य भवेयुस् ते ऽपि साक्षिणः ॥
तेषाम् अपि न बालः स्यान् नैको न स्त्री न कूटकृत् ।
न बान्धवो न चारातिर् ब्रूयुस् ते साक्ष्यम् अन्यथा ॥
बालो ऽज्ञानाद् असत्यात् स्त्री पापाभ्यासाच् च कूटकृत् ।
विक्रियाद् बान्धवः स्नेहाद् वैरनिर्यातनाद् अरिः ॥
मनुः [८.७७] ।
एको ऽलुब्धस् तु साक्षी स्यात् बह्व्यश् शुच्यो ऽपि न स्त्रियः ।
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥
कात्यायनः [३६५] ।
ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चैव परीक्षा कुत्रचित् स्मृता ॥
[११९] मनुः [८.७१] ।
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
जानीयाद् अथिरां वाचम् उत्सिक्तमनसां तथा ॥
इति साक्षिप्रत्युद्धारः
[१२०]