१६ — अथासाक्षिणः
तत्र नारदः [४.१५७–१५८] ।
असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् भृतान्तरः ॥
श्रोत्रियाद्या वचनतः स्तेनाद्या दोषदर्शनात् ।
भेदाद् विप्रतिपत्तिअः स्याद् विवादे यत्र साक्षिणाम् ॥
स्व्यमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।
मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ॥
श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजिता नराः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥
स्तेनाः साहसिकाश् चण्डाः कितवा पञ्चकास् तथा ।
असक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥
मनुः [८.६४] ।
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषः कर्तव्या न व्यध्यार्ता न दूषिताः ॥
[१०९] नारदः [४.१७८–१८५, १५६]
दासनैकृतिकाश्रद्धवृद्धस्त्रीबालवञ्चकाः ।
मत्तोन्मत्तप्रमत्तार्तकितवग्रामयाजकाः ॥
महापथिकसामुद्रवणिक्प्रव्रजितातुराः ।
व्यङ्गैकश्रोत्रियाचारहीनक्लीबकुशीलवाः ॥
नास्तिकव्रात्यदाराग्नित्यागिनो ऽयाज्ययाजकाः ।
एकस्थालीसहायारिधरज्ञातिसनाभयः ॥
प्राग्दृष्टदोषशैलूषविअषजीव्याहितुण्डिकाः ।
गरदाग्निदकीनाशशूद्रीपुत्रोपपातिकाः ॥
[११०]
क्लान्त [साहसिकाश्रान्तनिर्धूतान्त्यावसायिनः] ।
भिन्नवृत्तासमावृत्तजलतैलिकमूलिकाः ॥
भूताविष्टनृपद्विष्टवर्षनक्षत्रसूचकाः ।
अघशंस्यात्मविक्रेतृहीनाङ्गभगवृत्तयः ॥
कुनखी श्यावदच्छ्वित्रिमित्रध्रुक्च्छठशौण्डिकाः ।
ऐन्द्रजालिलुब्धोग्रश्रेणीगणविरोधिनः ॥
वधकश् चित्रकृच्छ्रङ्खः पतितः कूटकारकः ।
कुहकः प्रत्यवसितस् (?) तस्करो राजपूरुषः ॥
मनुष्यपशुमांसास्थिमधुक्षीराम्बुसर्पिषाम् ।
विक्रेता ब्राह्मणस् त्व् एषां द्विजो वार्धुषिकश् च यः ॥
[१११]
च्युतः स्वधर्मात् कुलिकः सूचको हीनसेवकः ।
पित्रा विवदमानश् च भेदकृच् चेत्य् असाक्षिणः ॥
श्रेण्यादिषु तु वर्गेषु कश्चिद् वै द्वेष्यताम् इयात् ।
तस्य तेभ्यो न साक्ष्यं स्याद् द्वेष्टारः सर्व एव ते ॥
“नैकृतिकः” वञ्चकः । “अश्रद्धः” श्रद्धारहितः । “महापथिकः” दीर्घाध्वनिकः । “कुशीलवओ” रङ्गोपजीवी । “एकस्थाली” एकपाकभोजी । “अरिधरः” श्रस्त्रधारी । “आहितुण्डिकः” व्यालग्राही । “उपपातिकः” पातकाक्रान्तः । “साहसिकः” सहसाविचारितकारी । “अश्रान्तः” अयोग्यकारी । “निर्धूतः” ग्रामराजकुलश्रेण्यादिभिर् निःसारितः । “भिन्नवृत्तः” स्वधर्मानवस्थितः । “मूलिकः” तत्र मूलं विप्रलम्भस् तत्कारी । “शङ्खः” बलीवर्दनाटनेन भिक्षाटनशीलः । “प्रत्यवसितः” प्रव्रज्याच्युतः । “कुलिकः” परिच्छेदकत्वेन वियुक्तः ।
मनुः [८.६५–६७] ।
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो निवर्तकः ॥
नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शिशुर् नैको नान्त्यो न विकलेन्द्रियः ॥
[११२]
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥
“आध्यधीनो” बन्धके घृतः ।
याज्ञवल्क्यः [२.७०–७१] ।
स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारपाखण्डिकूटकृद्विकलेन्द्रियाः ॥
पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसे दृष्टदोषाश्च निर्दोषाश् चेत्य् असाक्षिणः ॥
बृहस्पतिः [५.३९–४०] ।
मातुः पिता पितृव्यश् च भार्याया भ्रातृमातुलौ ।
भ्राता सखा च जामाता सर्ववादेष्व् असाक्षिणः ॥
परस्त्रीपानसक्ताश् च कित्वाः सर्वदूषिताः ।
उन्मत्तार्ताः साहसिका नास्तिकाश् च न साक्षिणः ॥
कात्यायनः [३६२–३६४] ।
तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्याः आप्तास् ते तु न साक्षिणः ॥
[११३] > मातृष्वसृसुताश् चैव पितृष्वसृसुतास् तथा ।
मातुलस्य सुताश् चैव सोदर्यासुतमातुलाः ॥
एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् \
एवं पितृमातृसनाभयो बोद्धव्याः ।
कुल्याः सम्बन्धिनश् चैव विवाह्यो भगिनीपतिः ॥
पिता बन्धुः पितृव्यश् च श्वशुरो गुरवस् तथा ।
नगरग्रामदेशेषु नियुक्ता ये पदेषु च ॥
वल्लभाश् च पृच्छेयुर् उक्तास् ते राजपूरुषाः ।
न क्रुद्धैर् नापि संसृष्टैर् नासीनैर् न रुजान्वितैः ॥
न निन्द्यैर् नापि संमूढैः साक्षिभिस् तु विभावयेत् ।
विरुद्धा वर्जिताः स्युश् चेत् साक्ष्यं वर्गस्य न क्वचित् ॥
[११४] अथासाक्षिण इत्य् अधिकारे शङ्खलिखितौ- ऽशुल्कगुल्माधिकृतो दूतो वेष्टितशिराः स्त्रियश् च सर्वाः गुरुकुलवासिनः परिव्राजकवानप्रस्थनिर्ग्रन्थशङ्खव्यालग्राहिणः" । “शुल्काधिकृतः” शुक्लग्रहणस्थानाधिकारी । “गुल्माधिकृतः” पदातिसमूहो गुल्मस् तदधिकृतः । “गुरुकुलवासिनो” ब्रह्मचारिणः । “निर्ग्रन्थः” क्षपणकः ।
नारदः [४.१६०, २३०, १६१] ।
राज्ञा परिगृहीतेषु साक्षिष्व् एकार्थनिश्चये ।
वचनं यत्र भिद्येत ते स्युर् भेदाद् असाक्षिणः ॥
स्मृतिमत्साक्षिसाम्यं तु विवादे यत्र दृश्यते ।
सूक्ष्मत्वात् साक्षिधर्मस्य साक्ष्यं व्यावर्तते ततः ॥
अनिर्दिष्टस् तु साक्षित्वे स्वयम् एवैत्य यो वदेत् ।
स्वयम् उक्तः स शास्त्रेषु न च साक्षित्वम् अर्हति ॥
स्मृतिमत्साक्षिसाम्यम् इति । स्मृतिमत्त्वाद् द्विगुणेन समाः सन्तो यत्र साक्षिणो भिद्यन्ते तते ते वचनभेदाद् असाक्षिणो न पुनर् अस्मास् ते ऽपि ।
कात्यायनः [४०४, ३७७] ।
यः साक्षी नैव निर्दिष्टो नाहूतो नापि चोदितः ।
ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ऽपि नराधमः ॥
[११५] > अर्थी यत्र विपन्नः स्यात् तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी वा मृतो यत्र तराप्य् एवं प्रकल्पयेत् ॥
नारदः [४.१६२, ९४–९६] ।
यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति वा ऽर्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥
सन्तो ऽपि न प्रमाणं स्युर् मृते धनिनि साक्षिणः ।
अन्यत्र श्रावितं यत् स्यात् स्वयम् आसन्नमृत्युना ॥
न हि प्रत्यर्थिनि प्रेते प्रमाणं साक्षिनां वचः ।
साक्षिमत् कारणं तत्र प्रमाणं स्याद् विनिश्चयः ॥
श्रावितेनान्तरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृतो ऽपि तत्र साक्ष्यं स्यात् षट्सु चान्वाहिताग्निषु ॥
यो ऽर्थः श्रावयितव्य इत्यादेर् अयम् अर्थः —येनार्थिना साक्षीकृतः सो ऽर्थं यस्य साक्षिणो मृतोत्तरे स मृतान्तरनामासौ न साक्षित्वम् अर्हति । यदि मुमूर्षुणा अर्थिना पित्रा अमुकं द्रव्यम् इयद् एतया वृध्या अमुककाले देवदत्ताय दत्तम् अत्रार्थे ऽमी साक्षिण इत्य् एवं पुत्रः श्रावितो भवेत् । तस्य साद्यादिविवेकाभावात् । अर्थिना यो ऽर्थः श्रावयितव्यः साक्षिणाम् अस्मिन्न् अर्थे भवन्तः [११६] साक्षिण इति । श्राविताद् ऋते तत्साध्यादिविशेषपरीक्षाभावान् नार्थं श्रावयितुं शक्षिणां शक्नोतीत्य् अतः —“क्व तद् वदतु साक्षित्वम् इति साक्षी मृतान्तरः” इति । यदा तु मुमूर्षुणा श्रावितास् तदा मृते ऽप्य् अर्थिनि भवन्त्य् एव साक्षिण इति ।
कात्यायनः [३६०] ।
अन्येन हि कृअः साक्षी नैवान्यस् तं विवादयेत् ।
तदभावे विनिर्युक्तो बान्धवो वा विवादयेत् ॥
भावयेत् साक्षिभिः कार्यं मृते त्व् अर्थिनि बान्धवः ।
कुलादीनां समक्षं चेल् लिखितं भावयेत् सदा ॥
इत्य् असाक्षिणः ।
११७]