अथ साक्षिणः
तत्र नारदः [४.१४७] ।
संदिग्धेषू तु कार्येषु द्वयोर् विवद्मानयोः ।
दृष्टश्रुतानुभूतत्वात् साक्षिभ्यो व्यक्तिदर्शनम् ॥
मनुः [८.७४] ।
समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।
समक्षदर्शनश्रवणोपादानं प्रमाणमात्रोपलक्षणार्थम् तेन प्रमाणतो येनानुभूतं विवादपदं स साक्षीत्य् अर्थः ।
कात्यायनः ।
अर्थिप्रत्यर्थिसांनिध्याद् अनुभूतं तु यद् भवेत् ।
तद् ग्राह्यं साक्षिणो वाक्यम् अन्यथा न बृहस्पतिः ॥
नारदः [४.१४९–१५०] ।
एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधस् तेषां त्रिविधो ऽकृत उच्यते ॥
[९९]
लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः ॥
नारद-कात्यायनौ ।
अन्ये पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ॥
कार्येष्व् अभ्यन्तरो यश् च अर्थिना प्रहितश् च यः ।
कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥
बृहस्पतिः [५.४, १३]
लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ ।
यादृच्छश् चोत्तरश् चैव कार्यमध्यगतो ऽपरः ॥
नृपो ऽध्यक्षस् तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदम् एषां वक्ष्यामि यथावद् अनुपूर्वशः ॥
जातिनामाभिलिखितं येन स्वं पित्र्यम् एव च ।
निवासश् च स विज्ञेयः साक्षी लिखितसंज्ञकः ॥
अर्थिक्रियां क्रियाभेदैस् तस्य कृत्वा ऋणादिके ।
प्रत्यक्षं लेख्यते यश् च लेखितः स उदाहृतः ॥
[१००]
कुड्यव्यवहितो यस् तु श्राव्यते ऋणिभाषितम् ।
विनिह्नुते यथाभूतं गूढसाक्षी स कीर्तितः ॥
आहूय यः कृतः साक्षी ऋणे न्यासक्रियादिके ।
स्मार्यते च मुहुर् यश् च स्मारितः सो ऽभिधीयते ॥
विभागदाने विपणे ज्ञातिर् यत्रोपदिश्यते ।
द्वयोः समानो धर्मज्ञः स कुल्यः परिकीर्तितः ॥
अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस् तु यः ।
उभयोः संमतः साधुर् दूतकः स उदाहृतः ॥
क्रियमाणे तु कर्तव्ये यः कश्चित् स्वयम् आगतः ।
अस्ति साक्षित्वम् अस्माकम् उक्तो यादृच्छिकस् तु सः ॥
यत्र साक्षी दिशं गच्छन् मुमूषुर् वा यथाश्रुतम् ।
अन्यं संश्रावयेत् तं तु विद्याद् उत्तरसाक्षिणम् ॥
व्यासः ।
साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषते ।
श्रवणाच् छ्रावणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥
बृहस्पति-कात्यायनौ ।
उभाभ्यां यस्य विश्वस्तं कार्यं वापि निवेदितम् ।
गूढचारी स विज्ञेयः कार्यमध्यगतस् तथा ॥
[१०१]
अर्थिप्रत्यर्थिनोर् वाक्यं यच् छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद् विदंवादे द्वयोर् अपि ॥
निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा ॥
उभाभ्यां यत्र विश्वस्तम् इति । उभाभ्याम् अर्थिप्रत्यर्थिभ्यां यस्य विश्वासः कृतः स गूडचारी कार्यमध्यगतो विज्ञेय इत्य् अर्थः ।
कात्यायनः [३५५] ।
लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।
नृपे पश्यति तत्कार्यं साक्षिणः समुदाहृताः ॥
बृहस्पतिः [५.१८] ।
मुषितं घातितं यत्र सीमायाश् च समन्ततः ।
अकृतो ऽपि भवेत् साक्षी ग्रामस् तत्र न संशयः ॥
मनुः [८.७६] ।
यत्रानिबद्धो वीक्ष्येत शृणुयाद् वापि किंचन ।
पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥
कात्यायनः [३५२] ।
अशक्य आगमो यत्र विदेशप्रतिवादिनाम् ।
त्रैविद्यप्रहितस् तत्र लेख्यं साक्ष्यं प्रवादयेत् ॥
[१०२] “आगमः” आगमनम् ।
मनुः [८.६०] ।
पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणाम् ।
त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ ॥
“पृष्टः” प्राड्विवाकेन । “अपव्ययमानः” अपह्नवं कुर्वन् । “कृतावस्थः” आसेधादिना कृतम् अवस्थानं यस्य स तथा । “भाव्यः” विभावनीयः ।
बृहस्पतिः [५.१, १९, २] ।
नव सप्त पञ्च वा स्युश् चत्वारस् त्रय एव वा ।
उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदाचन ॥
लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्चलेखिताः ।
यदृच्छास्मारिताः कुल्यास् तथा चोत्तरसाक्षिणः ॥
दूतकः खटिकाग्राही कार्यमध्यगतस् तथा ।
एक एव प्रमाणं स्यान् नृपो ऽध्यक्षस् तथैव च ॥
लिखितौ द्वाव् इति, एतौ द्वौ साक्षिणौ भवतः अन्ये तु दूतकादिव्यतिरिक्तास् त्र्यवरा एवेत्य् अर्थः ।
]१०३]
याज्ञवल्क्यः [२.७२] ।
उभयानुमतः साक्षी भवेद् एको ऽपि धर्मवित् ।
व्यासः ।
शुचिक्रियश् च धर्मज्ञः साक्षी यत्रानुभूतवाक् ।
प्रमाणम् एको ऽपि भवेत् साहसेषु विशेषतः ॥
“अनुभूतवाक्” सत्यत्वेनानुभूता वाग् यस्य ।
कात्यायनः [३५३–३५४] ।
अभ्यन्तरे तु निक्षेपे साध्यम् एको ऽपि बाध्यते ।
अर्थिना प्रहितः साक्षी भवत्य् एको ऽपि याचितः ॥
संस्कृतं येन तत् पण्यं तत् तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥
संस्कृतं येन तत् पण्यम् इति । येन सुवर्णकारादिना यत् पण्यं कुण्डलादिघटितं तत् तेनैव साक्षिणा साधयेद् इत्य् अर्थः ।
नारदः [४.१६७] ।
सुदीर्घेणापि कालेन लिखितः सिद्धिम् आप्नुयात्
संजानन्न् आत्मनो लेख्यम् अजानन्तं न लेखयेत् ॥
[१०४] अजानन्तं न लेखयेत् । अत्रायम् अर्थः — यत्र कारणसमये लेखितुम् अजानन्तम् आत्मानं यो ऽन्येन लिपिज्ञेनाहम् अत्रामुको अमुकग्रामीयो ऽमुकपुत्रः साक्षीत्य् एवं लेखयेत् सो ऽपि चिरेणापि सिद्धिम् आप्नुयात् ।
कात्यायनः [३७०] ।
अथ स्वहस्तेनारूढस् तिष्ठंश् चैकः स एव तु ।
न चेत् प्रत्यभिजानीयात् तत् स्वहस्तैः प्रसाधयेत् ॥
नारदः [६.१६८–१७१] ।
अष्टमाद् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः ।
आ पञ्चमात् तथा सिद्धिर् यदृच्छोपगतस्य तु ॥
आ तृतीयात् तथा वर्षात् सिद्धिर् गूढस्य साक्षिणः ।
आ संवत्सरात् सिद्धिं तु वदन्त्य् उत्तरसाक्षिणः ॥
अथ वा कालनियमो न दृष्टः साक्षिणः प्रति ।
स्मृत्यपेक्षं हि साक्षित्वम् आहुः शास्त्रविदो जनाः ॥
यस्य नोपहता बुद्धिः स्मृता श्रोत्रं च नित्यशः ।
सुदीर्घेणापि कालेन स वै साक्षित्वम् अर्हति ॥
मनुः [८.६१–६३] ।
यादृशा अर्थिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥
[१०५]
गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः ।
इत्य् उक्त्वा साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥
प्राप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥
“ऋतम्” सत्यम् । “मौलाः” प्रसिद्धकुलोद्भवाः ।
याज्ञवल्क्यः [२.६८–६९] ।
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥
गौतमः [१३.२–४]- ऽबहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञाम् । निष्प्रीत्यभितापाश् चान्यतरस्मिन् । अपि शूद्राः" । [१०६] “प्रात्ययिका राज्ञाम्” प्रत्ययोत्पादका राज्ञाम् । “निष्प्रीत्यभितापाः” मैत्रशास्त्रववर्जिताः ।
कात्यायनः [३४७–३४८] ।
प्रख्यातकुलशीलाश् च लोभमोहविवर्जिताः ।
आप्ताः शिष्टा विबुद्धा ये तेषां वाक्यम् असंशयम् ॥
विभाव्यो वादिना यादृक् सदृशैर् एव भावयेत् ।
नोत्कृष्टं चावकृष्टैस् तु साक्षिभिर् भावयेत् सदा ॥
शङ्खलिक्खितौ- ऽअथ साक्षिणः । श्रोत्रियो गुणवान् रूपवान् माणवकः शीलवान् क्षत्रियस् तथा, वैश्यः शूद्रो वा धर्मवांश् च यः शीलोपपन्नः, कर्मवादैर् विदितो न त्व् एकः" ।
व्यासः ।
मणिमन्त्रौषधिबलात् प्रदत्तं वा विधानतः ।
विसंवदेद् दिव्यम् अपि न तु साक्षी गुणान्वितः ॥
नारदः [४.१५५] ।
श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः ।
बहिर्वासिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः ॥
[१०७] कात्यायनः [३.४९–३५०] ।
लिङ्गिनः श्रेणिपूगाश् च वणिग्जातास् तथापरे ।
समूहस्थाश् च ये चान्ये वर्गास् तान् अब्रवीद् भृगुः ॥
दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः ॥
तेषां वादः स्ववर्गेषु वर्गिणस् तेषु साक्षिणः ।
मनु-कात्यायनौ [म। ८.६८; का। ३५१] ।
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां द्विजसत्तमाः ।
शूद्राश् च सन्तः शूद्राणां मर्त्यानां मर्त्ययोनयः ॥
इति भट्टहृदयधरात्मज-महासन्धिविग्रहिक-
भत्तश्रीमल्लक्ष्मीधरविरचिते कृत्यकपतरौ व्यवहारकाण्डे साक्षिप्रकरणम्
[१०८]