१४ प्रमाणविषयः

१४ — अथ क्रियापादः

तत्र प्रमाणविषयः

तत्र बृहस्पतिः [४.५] ।

श्रुत्वा पूर्वोत्तरं सभ्यैर् निर्दिष्टा यस्य भावना ।
विभावयेत् प्रतिज्ञातं सो ऽखिलं लिखितादिना ॥

कात्यायनः [२१३, २२२] ।

वादिना यद् अभिप्रेतं स्वयं साधयितुं स्फुटम् ।
तत्साध्यं साधनं येन तत्साध्यं साध्यते ऽखिलम् ॥
सारभूतं पदं मुक्त्वा असाराणि बहून्य् अपि ।
संसाधयेत् क्रियां यां तु तां जह्यात् सारवर्जिताम् ॥
पक्षद्वयं साधयन्तीं तां जह्याद् दूरतः क्रियाम् ।
क्रियां बलवतीं मुक्त्वा दुर्बलां यो ऽवलम्बते ॥
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ।

नारदः [१.६२–६३] ।

निर्वृत्ते व्यवहारे तु प्रमाणफलं भवेत् ।

[९१]

लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फला प्रावृषो गुणाः ।
निर्वृत्तव्यवहाराणां प्रमाणम् अफलं भवेत् ॥

याज्ञवल्क्यः [२.७८] ।

ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ।
तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा ॥

अर्थीति द्वयोर् अप्य् अर्हिनोर् उपादानम् । स्वपक्षसाधनेनार्थित्वेन द्वयोर् अपि ग्रहणात् ।

नारदः [१.६] ।

सारस् तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस् ताम् उत्तरो भवेत् ॥

“तरन्” निर्वाहयन् । “उत्तरो” विजयवान् ।

बृहस्पतिः [४, ६,८] ।

द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस् तत्त्ववेदिभिः ॥
साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ।
धटाद्या धर्मजान्ता च दैविकी नवधा स्मृता ॥

[९२]

साक्षी द्वादशबेदस् तु लिखितं दशधा स्मृतम् ।
अनुमानं च द्विविधं नवधा दैविकी क्रिया ॥

कात्यायनः [२१४, २३३] ।

साक्षिणो लिखितं भुक्तिः प्रमाणं त्रिविधं विदुः ।
लेशोद्देशस् तु युक्तिः स्याद् दिव्यानीह विषादयः ॥
ऋणं लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि च ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥

याज्ञवल्क्यः [२.२२] ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥

नारद-बृहस्पती ।

दिवा कृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥

कात्यायनः [२१८, २१९, २२३] ।

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥
यद्य् एकदेशप्राप्तापि क्रिया विद्येत मानुषी ।
सान्याय्या न तु पूर्वापि दैविकीं वदतां नृणाम् ॥

[९३]

क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न स्याद् दिव्यं न साक्षिणः ॥

“एकदेशप्राप्ता” प्रतिज्ञातैकभागविषया ।

पितामहः ।

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।
साक्षिभिर् लिखितेनाथ भुक्त्या चैतान् प्रसाधयेत् ॥

बृहस्पतिः [४.१०] ।

ऋणादिषु तु कार्येषु कल्पयेन् मानुषीं क्रियाम् ।

कात्यायनः [२३९, २२७, २२४, २२५, २२६, २२९] ।

वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ।
दत्वादत्ते तथादत्ते स्वामिनां निर्णये सति ॥
विक्रयादानसंबन्धे कृत्वा धनम् अनिच्छति ।
द्यूते समाह्वये चैव विवादे समुपस्थिते ॥
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ।
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ॥

[९४]

तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ।
द्वारमार्गक्रियाभोगजलवाहादिके तथा ॥
भुक्तिर् एव हि गुर्वी स्यान् न दिव्यं न च साक्षिणः ।
प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥

“दत्वादत्ते” दत्तम् इति प्रतिश्रुत्यानर्पिते । “तथादत्ते” पुनर् आछिद्य गृहीते । स्वामिनां निर्णये सतीति । एतत् स्वामिकम् एतद् इति निश्चये सति । दत्वादत्तविवादेषु साक्षिणः प्रमाणं न पुनर् दिव्यं न च लेखकं चेत्य् अर्थः । “धनं” मूल्यरूपम् । “अनिच्छति” दातुम् इति शेषः ।

व्यासः ।

रहःकृतं प्रकाशं च द्विविधं दिव्यम् उच्यते ।
प्रकाशं साक्षिभिर् भाव्यं दैविकेन रहः कृतम् ॥

“भाव्यम्” शोधनीयम् ।

बृहस्पतिः ।

लिखिते साक्षिवादे तु संदिग्धे जायते यदा ।
अनुमानेन संभ्रान्ते तत्र दिव्यं विशोधनम् ॥
नृपद्रोहे साहसे च कल्पयेद् दैविकीं क्रियाम् ।

नारदः [२.३०; ३.२४७, २४२] ।

अरण्ये विजने रात्राव् अन्तर्वेश्मनि साहसे ।

[९५]

न्यासापह्नवने चैव दिव्या संभवति क्रिया ॥
यदा साक्षी न विद्येत विवादे वदतां नृणाम् ।
तदा दिव्यैः परीक्षेत शपथैश् च पृथग्विधैः ॥
स्त्रीणां शीलाभियोगे च स्तेयसाहसयोर् अपि ।
एष एव विधिर् दृष्टः सर्वार्थापह्नवेषु च ॥

कात्यायनः [२३०, २२४] ।

पतनं क्रियते यत्र अङ्गछेदो वधो ऽपि वा ।
दिव्यं वेद् देशयेद् वादी सम्यग्दृष्टैः प्रपादयेत् ॥
गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिलेशेङ्गिताकारवाक्चक्षुश्चेष्टितैर् नृणाम् ॥
अलेखे ऽसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥

बृहस्पतिः [४.१४, २१] ।

मणिमुक्तानाणकानां कूटकृन् न्यासहारकः ।
हिंसको ऽन्यङ्गनासेवी परीक्ष्याः शपथैः सदा ॥

९६]

महापापाभिशापेषु निक्षेपहरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्व् अपि साक्षिषु ॥
चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।
प्रदुष्टेषु समानेषु दिव्यैः कार्यं विशोधनम् ॥

“चिरन्तनोपांशुकृते” चिरन्तनकृते रहस्यकृते च । “समानेषु” सदृशेषु ।

व्यासः ।

प्रथमा यत्र भिद्यन्ते साक्षिणश् च तथा परे ।
परेभ्यश् च तथा चान्ये तं वादं शपथैर् नयेत् ॥

“भिद्यन्ते” प्रतिपद्यन्ते ।

कात्यायनः [२३२, २३१] ।

समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु ॥
दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ।
उत्तमेषु तु सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥

समत्वं साक्षिणां यत्रेति । उभयोर् अर्थिप्रत्यर्थिप्रयुक्तपक्षयोर् अपि यत्र साक्षिणां तुल्यता तुल्यसंख्यता च भवतीत्य् अर्थः ।

व्यासः ।

न मयैतत् कृतं लेख्यं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अर्थे दिव्येन निर्णयः ॥

[९७] प्रजापतिः ।

यन् नामगोत्रैर् यल् लेख्यं तुल्यं लेख्यं क्वचिद् भवेत् ।
अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ॥

मूललेख्येन नामगोत्रैस् तुल्यं लेख्यान्तरं विपरीतार्थं यदा भवति तदा तद् अप्रमाणीकृत्य दिव्येन निर्णयः कर्तव्य इत्य् अर्थः ।

कात्यायनः [२३८] ।

यत्र स्यात् सोपधं लेख्यं तद् राज्ञे श्रावितं यदि ।
दिव्येन शोधयेत् तत्र राजा धर्मासनस्थितः ॥

“सोपधम्” छलसहितम् ।

नारद-कात्यायनौ ।

प्रमाणानि प्रमाणज्ञैः पालनीयानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणैर् अव्यवस्थितैः ॥

“सीदन्ति हि प्रमाणानि” इति । अविषयव्यापारेण प्रमाणैर् अव्यवस्थितैः तानि सीदन्ति न निर्णयकारीणि भवन्तीत्य् अर्थः ।

इति क्रियापादे प्रमाणविषयः