अथ क्रियादानम्
तत्र बृहस्पतिः [४.२] ।
ये तु तिष्ठन्ति करणे तेषां सभ्यैर् विभावना ।
कारयित्वोत्तरं सम्यग् दातव्यैकस्य वादिनः ॥
प्रतिज्ञां साधयेद् वादी प्रत्यर्थी कारणे तथा ।
प्राग्वृत्तवादी विजयं जयपत्रेण भावयेत् ॥
“ये तु तिष्ठन्ति” विपतिपत्तिवादिन इति शेषः । “विभावना” क्रिया दातव्येत्य् अन्वयः । प्रमाणं ब्रूहीत्य् अर्थः । “प्रतिज्ञां साधयेत्” प्रतिज्ञातम् अर्थं प्रमाणेन साधयेत् । एतच् च मिथ्योत्तरे । प्रत्यर्थी कारणं साधयेद् इत्य् अर्थः । एतच् च प्रत्यवस्कन्दनोत्तरे ।
व्यासः ।
प्राङ्न्याये कारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न साधयेत् ॥
कात्यायनः [२११] ।
कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरं प्रतिपद्यते ।
अतः क्रिया सदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥
[८८] मनुः [८.५२] ।
अपह्नवे ऽधमर्णस्य देहीत्य् उक्तस्य संसदि ।
अभियोक्ता दिशेद् देशं कारणं वान्यद् उद्दिशेत् ॥
यदा राज्ञा प्राड्विवाकेन च “संसदि” व्यवहाराधिकरणादिदेशे ह्य् उत्तमर्णवचनम् इत्य् उक्तस्यापह्नवो ऽधमर्णस्य भवति तदा “अभियोक्ता” धनस्य प्रयोक्ता उत्तमर्णो “दिशेद् देशं” साक्षिणो प्रमाणभूतान् निर्दिशेत् “अन्यद् वा कारणं” लेख्यादि निर्दिशेद् इत्य् अर्थः ।
नारदः [३.१६३] ।
द्वयोर् विवदयोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् अस्य भवेयुस् तस्य साक्षिणः ॥
याज्ञवल्क्यः [२.१७] ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥
“पूर्ववादिनः” पूर्वकालम् एव मया क्रीतं प्रतिगृहीतं चेत्य् एवं वादिनः ।
नारदः [४.१६४; २.३१] ।
आधर्यं पूर्वपक्षस्य यस्मिन्न् अर्थवशाद् भवेत् ।
विवादे साक्षिणस् तत्र प्रष्टव्याः प्रतिवादिनः ॥
[८९]
कारणप्रतिपत्तौ तु पूर्वपक्षे विरोधिते ।
अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥
“कारणप्रतिपत्तौ” प्रत्यवस्कन्दने । “पूर्वपक्षवत्” यथा भाषावादी मिथ्योत्तरे सति स्वपक्षं साधयति तथा कारणवादी स्वपक्षं साधयेद् इत्य् अर्थः ।
व्यासः ।
प्राङ्न्यायजयपत्रेण प्राड्विवाकादिभिस् तथा ।
सत्यवादी समाप्नोति पद्यते न निवेदितम् ॥
“सत्यवादी” यथार्थवादी प्राङ्न्याववादी ।
इति प्रत्याकलितपादः
[९०]