१२ संधिः
अथ संधिः
तत्र बृहस्पतिः [३.४३–४५, ४७–४९] ।
पूर्वोत्तरे ऽभिलिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः सन्तप्तयोः संधिः स्याद् अयःखण्डयोर् इव ॥
साक्षिसभ्यविकल्पस् तु भवेत् तत्रोभयोर् अपि ।
दोलायमानौ यौ संधिं कुर्यातां तौ विचक्षणौ ॥
प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजाज्ञया संधिर् उभयोर् अपि शस्यते ॥
धर्मार्थोपग्रहः कीर्तिः भवेत् साम्येन भूभृतः ।
न क्लिश्यन्ते साक्षिसभ्या वैरं च विनिवर्तते ॥
निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशो ऽयशः ।
विग्रहाज् जायते नॄणां पुनर् द्वेषस् तथैव च ॥
तस्मात् कुलगणाध्यक्षा धर्मज्ञाः समदृष्टयः ।
अद्वेषलोभाद् यद् ब्रूयुस् तत् कर्तव्यं विजानता ॥
[८६] साक्षिसभ्यविकल्प इति । उभयोर् अपि अर्थिप्रत्यर्थिनोर् यत्र साक्षिसभ्यविकल्पो भवेत् किम् एते वक्ष्यन्तीति, तत्र दोलायमाने कार्यनिर्णये कथं भविष्यतीति संदिग्धे यौ संधिं कुर्यातां तौ विचक्षणाव् इत्य् अर्थः । समतेति । उभयोर् अप्य् अर्थिप्रत्यर्थिनोः पक्षे सभ्यानां प्रमाणसामान्यं यत्र प्रतिभाति । यत्र च भेदः शास्त्रचरित्रयोः । शास्त्रे शास्त्रान्तरेण विप्रतिपत्तिः, व्यवहारे च व्यवहारान्तरेण विप्रतिपत्तिस् तत्र राजाज्ञया संधिः प्रशस्यत इत्य् अर्थः । निग्रहानुग्रहम् इति । अर्थिप्रत्यर्थिनोर् विग्रहे सत्य् अवस्थितानि निग्रहादीनि भवन्तीत्य् अतः संधिः श्रेयान् इत्य् अर्थः ।