११ हीनः

अथ हीनः

तत्र मनुः [८.५३–५८] ।

अदेशं यश् च दिशति निर्दिश्यापह्नुते च यः ।
यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥
अपदिश्योपदेशं च पुनर् यस् त्व् अपधावति ।
सम्यक् प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥
असंभाष्ये साक्षिभिश् च देशे संभाषते मिथः ।
निरुध्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥
ब्रूहीत्य् उक्तश् च न ब्रूयद् उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥
सन्ति ज्ञातार इत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः कारणैर् एतैर् हीनं तम् अपि निर्दिशेत् ॥
अभियोगे न चेद् ब्रूयाद् वध्यो दण्ड्यश् च धर्मतः ।
न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥

[८१] “अदेशो” यत्रार्थिप्रत्यर्थिनौ न तस्मिन् काले स्थितौ । “निर्दिश्य” देशादिकम् इति शेषः । “अधरोत्तरान् अर्थान्” पौरस्त्यान् औपरिष्टांश् च । “विगीतान्” विरुद्धान् । “अपदिश्य” उपन्यस्य । “अपदेशम्” व्याजम् । “अपधावति” अपसरति । “सम्यक् प्रणिहितम् अर्थम्” अनाकुलं निश्चितम् उक्तम् । “पृष्टः” यद् अनेनोक्तं तत्र किं ब्रवीषि केन वा प्रमाणेन साधयसि स्वपक्षम् इत्याद्य् उक्तः । “असंभाष्ये” संभाषणानर्हे देशे । “निष्पतेत्” अनाख्याय ग्रामान्तरं निर्गच्छेत् । ब्रूहीत्यादिना प्राप्तस्य पुनर्वचनं दार्ड्यार्थम् । “धर्मस्थः” धर्माधिकरणस्थः ।

नारद-कात्यायनौ [ना। ३.१६५] ।

न परेण समुद्दिष्टान् उपेयत् साक्षिणो रहः ।
भेदयेन् नैव चान्येन हीयते तैः समाचरन् ॥

नारदः [२.३२–३३, २८; १.६६, ५८–५९] ।

पलायते ऽभियुक्तश् च मौनी साक्षिपराजितः ।
स्वयम् अभ्युपपन्नश् च अवसन्नश् चतुर्विधः ॥
अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
पूर्ववादं परित्यज्य यो ऽन्यम् आलम्बते नरः ।
वादसंक्रमणं ज्ञेयो हीनवादी स वै नरः ॥

[८२]

यम् अर्थम् अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
नान्यत् पक्षान्तरं गच्छेद् गच्छन् पूर्वात् स हीयते ॥
सापदेशं हरेत् कालम् अब्रुवंश् चापि संसदि ।
उक्ता वादो विब्रुवंश् च हीयमानस्य लक्षणम् ॥
आहूतो यः पलायेत प्राप्तश् च विवदेन् न यः ।
विनेयः स भवेद् राज्ञा हीन एव विवादतः ॥

“अभ्युपपन्नः” अङ्गीकृतपराजयः । “आवसन्नः” प्राप्तावसादः ।

याज्ञवल्क्यः [२.१६] ।

संदिग्धार्थं स्वतन्त्रो यः सधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥

“स्वतन्त्रः” राजनिवेदननिरपक्षो यदि “साधयेत्” गृह्णीयाद् इत्य् अर्थः,

अनिवेद्य तु यो राज्ञे संदिग्धे ऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात् सर्वो ऽप्य् अर्थो न सिध्यति ॥

इति नारदवचनात् ।

कात्यायनः [१९६–१९७] ।

लेखयित्वा तु यो वाचा न्यूनम् अप्य् अधिकं पुनः ।
वदेद् वादी स दीयेत नाभियोगं तु सो ऽर्हति ॥
न मयाभिहितं कार्यम् अभियुज्य परं वदेत् ।
विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥

[८३] बृहस्पतिः [३.३३–३९] ।

साक्षिणस् तु समुद्दिश्य यस् तु तान् न विवादयेत् ।
त्रिंशद्रात्रात् त्रिपक्षाद् वा तस्य हानिः प्रजायते ॥
आहूय प्रपलायेत मौनी साक्षिपराजितः ।
स्ववाक्यप्रतिपन्नश् च हीनवादी चतुर्विधः ॥
प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर् दिनैः ।
साक्षिभिन्नस् तत्क्षणेन प्रतिपन्नश् च हीयते ॥
निवेदितस्याकथनम् अनुपस्थानम् एव च ।
पक्षार्थं दूष्यमौनं च हीयमानस्य लक्षणम् ॥
महापापोपपापाभ्यां पातकेनाथ संसदि ।
यो ऽभिशस्तस् तत् कमते संयुक्तं तं विदुर् जनाः ॥
तस्माद् यत्नेन कर्तव्यं बुधेनात्मविशोधनम् ।
यद् यद् गुरुतरं कार्यं तत् तत् पूर्वं विशोधयेत् ॥
महापापाभिशस्तो यः पातकात् तर्तुम् इच्छति ।
पूर्वम् अङ्गीकृतं तेन जितो ऽसौ दण्डम् अर्हति ॥

“पूर्वम्” महापातकम् ।

नारदः [२.२५] ।

सर्वेष्व् अर्थविवादेषु वाक्च्छले नावसीदति ।
पशुस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥

“अर्थात्” पश्वादेर् उक्तत्वात् । [८४]

बृहस्पतिः [३.४०–४२] ।

आचारकरणे दिव्ये कृत्वोपस्थाननिर्णयम् ।
नोपस्थितो यदा इअश्चिच् छलं तत्र न कारयेत् ॥
देवराजकृतो दोशस् तस्मिन् काले यदा भवेत् ।
अवधित्यागभावेन न भवेत् स पराजितः ॥
पूर्वोत्तरे निविष्टे तु विचारे संप्रवर्तिते ।
प्रथमं ये मिथो यान्ति दाप्यास् ते द्विगुणं दमम् ॥