अथ प्रत्याकलितम्
तत्र दुष्टलक्षणम् । तत्र मनुः [८.२५–२६] ।
वाक्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारेण लक्ष्यते ऽन्तर्गतं मनः ॥
“विभावयेत्” निश्चिनुयात् । “भावम्” अभिप्रायम् । “नृणाम्” विवदिसाक्ष्यादीनाम् । “आकारो” विकारः स्वाभाविकानां स्वरादीनाम् अन्यथात्वम् । तत्र स्वरविकारः गद्गदादिः । वर्णविकारो गात्ररूपविपर्ययः । इङ्गितं स्वेदवेपथुरोमाञ्चादि । “चक्षुषा” सप्रेमक्रोधदृष्टिपातेन । “चेष्टितेन” हस्तनिष्पेषणभ्रूविक्षेपादिना । लोके चैतेषां स्वरादीनाम् अन्तर्गतमनःप्रकाशनसामर्थ्यं प्रसिद्धम् इत्य् आह — आकारैर् इत्यादिना । “आकारैः” आक्रियन्ते विक्रियन्त इत्य् आकाराः इङ्गितादयः । गतिर् अत्र स्खलन्ति स्वभावतो ऽन्यथाभूता । भाषितम् अत्र पूर्वापरविरुद्धं वचनम् । “वक्त्रविकारः” आस्यशोषादिः । [७८]
कात्यायनः [३८५–३८६] ।
आकारेङ्गितचेष्टाभिस् तस्य भावं विचारयेत् ।
प्रतिवादी भवेद् धीनः सो ऽनुमानेन लक्ष्यते ॥
कम्पः स्वेदो ऽथ वैवर्ण्यम् ओष्ठशोषाभिमर्शनम् ।
भूलेखनं स्थानहानिस् तिर्यगूर्ध्वनिरीक्षणम् ॥
स्वरभेदश् च दुष्टस्य चिह्नम् आहुर् मनीषिणः ।
“आकारः” प्रकोधजनिता शरीरविकृतिः । प्रतिवादीति द्वयोर् अपि ग्रहणम् अन्योन्यं प्रतिपक्षवादात् । “अभिमर्शनम्” जिह्वया ओष्ठप्रान्तलेहनम् ।
याज्ञवल्क्यः [२.१३–१५] ।
देशाद् देशान्तरं याति परिलेढि च सृक्किणी ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक् चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि ॥
स्वभावाद् विकृतं गच्छेन् मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये वा स दुष्टः परिकीर्तितः ॥
“सृक्किणी” ओष्ठप्रान्तौ । “वाक् चक्षुः पूजयति नो” परोक्तां वाचं प्रतिवचनदानेन नो पूजयति चक्षुर् वा प्रतिवीक्षणेन । “निर्भुजति” कुटिलीकरोति ।
रामायणे [युद्धकाण्ड, १६.६४] ।
आकारश् च्छाद्यमानो ऽपि न शक्यो विनिगूहितुम् ।
बलाद् धि विवृणोत्य् एव भावम् अन्तर्गतं नृणाम् ॥
[७९] कालिकापुराणे ।
वाचं न वदति त्रस्तः कम्पः स्वेदो ऽथ वा न तु ।
विकारो वान्यथा गात्रे मतिर् वा स्यान् न चान्यथा ॥
स जयी यद्य् अकोपः स्यान् न चेत् प्राक्तन एव हि ।
“न तु” इति कम्पस्वेदादिभिः संबध्यते । “न च” इति विकारो वेत्य् अनेन संबध्यते । “प्राक्तन एव” पूर्ववाद्य् एव । जयी स्याद् इत्य् अन्वयः ।
इति दुष्टलक्षणम्
[८०]