अथ प्रतिनिधिः
तत्र कात्यायनः [८९–९०] ।
अधिकारो ऽभियुक्तस्य नेतरस्यास्त्य् असंगतेः ।
इतरो ऽप्य् अभियुक्तेन प्रेरितो ऽविकृतो मतः ॥
समर्पितो ऽर्थिना यो ऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥
“प्रतिवादी” वादिप्रतिनिधिः । “प्रतिपन्नः” स्वयं प्रत्यर्थिना यो ऽन्यो ऽपि वादित्वेनानुमतः ।
बृहस्पतिः [१.१४२] ।
अप्रगभजडोन्मत्तवृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद् बन्धुर् नियुक्तो ऽन्यो ऽथ वा नरः ॥
“पूर्वोत्तरम्” भाषाम् उत्तरम् । कात्यायनः [९३, ९५] ।
ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे ।
अन्येष्व् असह्यवादेषु प्रतिवादी न दीयते ॥
मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् ॥ ७६]
कात्यायन-नारदौ [का। ९१; ना। २.२२] ।
अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थं विवदते तयोर् जयपराजयौ ॥
बृहस्पतिः [३.३०] ।
ऋत्विग्वादे नियुक्तश् च समौ संपरिकल्पितौ ।
यज्ञे स्वाम्य् आप्नुयात् पुण्यं हानिं वादे ऽथ वा जयम् ॥
नारद-कात्यायनौ [ना। २.२३] ।
यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥
कात्यायनः [९२] ।
दासाः कर्मकराः शिष्या नियुक्ता बान्धवास् तथा ।
वादिनो न च दण्ड्यः स्युः यः स्वतो ऽन्यः स दण्डभाक् ॥
बृहस्पतिः [३.३१, ३२] ।
पूर्वोत्तरे ऽभिलिखिते यत्र वादी प्रमीयते ।
प्रत्यर्थी वा सुतस् ताभ्यां व्यवहारं विशोधयेत् ॥
अनिर्णीते विवादे तु विप्रलब्धो भवेन् नरः ।
जयदानं दमं न स्यात् तस्मात् कार्यं विनिर्णयेत् ॥
इत्य् उत्तरपादः
[७७]