८ — अथोत्तरम्
तत्र बृहस्पतिः [३.२–४] ।
विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञार्थे स्थिरीभूते लेखयेद् उत्तरं ततः ॥
शालीनत्वाद् भयार्थो वा प्रत्यर्थी स्मृतिविभ्रमात् ।
कालं प्रार्थयते यत्र तत्रेमं लब्धुम् अर्हति ॥
एकाहत्र्यहपञ्चाहसप्ताहं पक्षम् एव वा ।
मासं ऋतुत्रयं वर्षं लभते शक्त्यपेक्षया ॥
“विनिश्चिते” स्वरूपतो ऽवधारित । ग्राह्याग्राह्यविशेषित इति । उपादेयविशेषणोपादाने हेयविशेषणे ह्य् अनेन च पूर्वपक्षे विशिष्टत्वेन च ज्ञापिते सति प्रतिज्ञार्थे जाते उत्तरं लेखयेद् इत्य् अर्थः । कात्यायनः [१५३, १४५, १४६, १५४, १५६, १४७, १६४, १५७, १४८]
सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥
श्रुत्वा लेखयतो ह्य् अर्थं प्रत्यर्थी कारणाद् यति ।
कालं विवादे याचेत तस्य देयो न संशयः ॥
[६५]
सद्यो वैकाहपञ्चाहो त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥
सद्यः कृते सद्योवादः समातीते दिनं क्षिपेत् ।
षडब्दिके त्रिरात्रं तु सप्ताहं द्वादशाब्दिके ॥
विंशत्यब्दे दशाहं तु मासार्धं लभते नरः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥
अस्वतन्त्रजडोन्मत्तबालदीक्षितरोगिणाम् ।
कालं संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् ॥
कालशक्ती विदित्वातु कार्याणां तु बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥
यो वा यस्मिन् समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायम् उत्तरं दापयेन् नृपः ॥
मूलं वा साक्षिणो वाथ परदेशस्थिता यदि ।
तत्र कालो भवेत् पुंसां स्वदेशे वक्तुम् आगमात् ॥
दिनं मासार्धमासं वा ऋतुः संवत्सरो ऽपि वा ।
क्रियास्थित्यनुरूपस् तु देयः कालः परेण तु ॥
[६६] “लेखयतः” अर्थिन इति शेषः । अर्थं श्रुत्वेत्य् अन्वयः । “कालो देयो” राज्ञेति शेषः । “समातीते” संवत्सरातीते । “यस्मिन्” देशे कुलादौ । “मूलं” विवादास्पदीभूतं धनम् अमुष्यात् पुरुषाल् लब्धम् इत्य् अभियुक्तो यं कथयति स उच्यते । “वक्तुम्” उत्तरम् अभिधातुम् । कालो देय इत्य् अन्वयः, समागमनपर्यन्तः । तथा [१५६–१५७]
संवत्सरं वामनस्को जडो व्याधिप्रपीडितः ।
दिगन्तरान् गच्छति चेद् वस्तुन्य् अकृतनिर्णयः ॥
“संवत्सरं” प्रतीक्षणीयम् इत्य् अर्थः । याज्ञवल्क्यः [२.१२] ।
साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥
“साहसम्” शस्त्रादिना प्रहरणादि । गौश् च दोग्ध्री । “अद्भिशापे” उपघातकाभिशंसने । “अत्यये” विवादविषयवस्तुविनाशसंभवे । “स्त्रियाम्” कुलस्त्रियां चारित्रविवादे, दास्यां सत्त्वविवादे । एतेषु सद्यः विवादेयेद् उत्तरं दापयेद् इत्य् अर्थः ।
**[६७] **बृहस्पति-कात्यायनौ [बृ। ३.९; का। १५]
साहसस्तेयपारुष्यगोऽभिशापे तथात्यये ।
भूमौ च पादपे क्षिप्रम् अकाले ऽपि बृहस्पतिः ॥
अकालो ऽत्र विवादासमयः यथा कृषीवलानां बीजवपनसंग्रहणकालः । नारदः [१.४५] ।
गोभूहिरण्यस्त्रीस्तेयपारुष्यात्ययिकेषु च ।
साहसेष्व् अभिशापे च सद्य एव विवादयेत् ॥
कात्यायनः [१५०, १५१, १४९] ।
धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रविक्रये ॥
कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥
व्यपैति गौरवं यत्र विनाशे त्याग एव वा ।
काले तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥
“प्रजननम्” अत्र विवाहः । “उपधौ” कूटगणकादिव्यवहाररूपच्छले । “गौरवम्” गुरुत्वम् । “विनाशे त्याग” इति, विनाशे सति यत्न त्याग एव संपद्यत इत्य् अर्थः ।
नारद-कात्यायनौ [ना। २.२; का। १५९] ।
पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसम्बद्धं प्रतिपक्षं निवेदयेत् ॥
[६८] “प्रतिपक्षम्” उत्तरम् । याज्ञवल्क्यः [२.७] ।
श्रुत्वार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
नारद-प्रजापती ।
पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥
“व्यापकम्” आच्छादकम् । “सारम्” अफल्गु । “अनाकुलम्” पूर्वापरविरोधरहितम् । “अव्याख्यागम्यम्” व्यक्तार्थम् । बृहस्पतिः [२.२] ।
मिथ्यासम्प्रतिपत्तिश् च प्रत्यवस्कन्दनं तथा ।
प्राङ्न्यायश् चोत्तराः प्रोक्ताश् चत्वारः शास्त्रवेदिभिः ॥
तथा [३.१७] ।
अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्वयम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥
व्यासः ।
मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अज्ञातश् चास्मि तत्काल इति मिथ्या चतुर्विधा ॥
[६९] बृहस्पतिर् नारदश् च द्वितीय ।
श्रुताभियोगं प्रत्यर्थी यदि तत्त्वं प्रपद्यते ।
सा तु संप्रतिपत्तिस् तु शास्त्रविद्भिर् उदाहृता ॥
अर्थिना लेखितो यो ऽर्थः प्रत्यर्थी यदि तत् तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥
“तत्त्वम्” तद्रूपत्वम् । प्रपद्य कारणं ब्रूयाद् इति । अर्थिनोक्तम् अर्थं सत्यम् एतद् इत्य् अभ्युपगम्य प्रत्यर्पितम् इत्यादिकारणाभिधानेन यदि पूर्वपक्षम् अवस्कन्दति प्रत्यर्थी तदा तद् उत्तरं प्रत्यवस्कन्दनं भवतीत्य् अर्थः । कात्यायनः [१७०] ।
यो ऽर्थिनार्थः समुद्दिष्टः (?) प्रत्यर्थी यदि तत् तथा ।
प्रपद्य कारणं ब्रूयाद् आधर्यं भृगुर् अब्रवीत् ॥
“आधर्यम्” प्रमाणान्वेषणानर्हत्वं पूर्वपक्षस्येत्य् अर्थः । बृहस्पतिः [३.२१–२४] ।
आचारेणावसन्ने ऽपि पुनर् लेखयते यदि ।
सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायः सम्यग् उच्यते ॥
तथ्ये तथ्यं प्रयुञ्जीत मिथ्यां मिथ्यां च लेखयेत् ।
कारणं कारणोपेते प्राङ्न्याये तूभयं तथा ॥
[७०]
भयदोषोद्भवा मिथ्या गर्हिता शास्त्रवेदिभिः ।
सत्या संप्रतिपत्तिस् तु धर्म्या सा परिकीर्तिता ॥
प्राङ्न्यायकारणं तथ्यं श्लाघ्यं सद्भिर् उदाहृतम् ।
विपरीतम् अधर्म्यं स्यात् प्रत्यर्थी हानिम् आप्नुयात् ॥
“आचारेण” व्यवहारमार्गेण् । “अवसन्नः” स्वसादं प्राप्तः भग्न इति यावत् । “पुनर् लेखयेत्” पुनर् अभियोगं कृत्वा सभान्तरे भाषां लेखयेत् । सो ऽभिधेय इत्यादि, सः अर्थे पूर्वम् अस्मिन् व्यवहारे मया जितः इति यत्राभिधीयते सः प्राङ्न्याय इत्य् अर्थः । व्यासः ।
मिथ्योत्तरं कारणं वा स्याताम् (?) एकत्र चेद् उभे ।
सत्ये वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥
मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ।
यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ॥
उत्तरं तत्र तज् ज्ञेयम् असंकीर्णम् अतो ऽन्यथा ।
मिथ्याकारणयोर् वापीत्यादि । मिथ्योत्तरकारणोत्तर्योर् एकस्मिन्न् अर्थे संकीर्णयोः कारणोत्तरम् आश्रित्य निर्णेतव्यम् । तद् यथा — मदीया गौर् अमुष्मिन् काले नष्टा सा चैतस्य गृहे निष्ठतीत्य् उक्ते, मिथ्यैतद् वदसि तत् कालात् प्राग् अपि च मद्गृहे स्थिता जातेत्य् उत्तरम् । सत्यमिथ्याकारणोत्तराणाम् अपि संकरे कारणोत्तरम् एव [७१] ग्राह्यम् । मिथ्याकारणयोर् वापीति वापिशब्दाभ्यां त्रिभिर् अपि संकरे कारण्म् एव ग्राह्यम् इति दर्शितत्वात् । उदाहरणं यथा — नवत्यभियोगे मिथ्यैतत् षष्टिर् एव पणा गृहीतास् तत्रापि त्रिंशत्परिशोधिताः त्रिंशच् च धारयामीति । यत् प्रभूतार्थविषयम् इति यदि पुनर् एकं प्रभूतार्थविषयम् उत्तरं तदा उपादाय निर्णेतव्यम् । उदाहरणं यथा — शताभियोगे अशीतिर् मिथ्या विंशतिमात्रं गृहीतं तच् च दत्तम् इत्य् अत्र मिथ्यांशस्य प्रभूतार्थविषयत्वात् मिथ्योत्तरम् एव ग्राह्यम् । पूर्ववादिन एव क्रिया देयेत्य् अर्थः । “यत्र वा स्यात् क्रियाफलम्” इति । यत्र मिथ्याकारणादिसंकरे व्यक्तं निर्णयकारणं पत्रादिकम् अस्ति, तद् उत्तरं ग्राह्यम् अप्रभूतार्थम् अपीत्य् अर्थः । अतो ऽन्यथा संकीर्णम् उत्तरं भवतीति शेषः ।
कात्यायनः [१९१] ।
प्रथमं कारणं पूर्वम् अन्यद् गुरुतरं यदि ।
प्रतिवाच्यगतं ब्रूयात् साध्यम् एतद् विनेतरम् ॥
प्रथमम् एकं कारणम् अभिधाय ततो ऽपरं गुरुतरं यदि कारणं वक्ति तदोत्तरं तत्र प्रमाणम् अनुसरणीयम्, न पूर्वोक्तम् इत्य् अर्थः । बृहस्पतिः [३.२८] ।
प्रत्युक्ताद् अन्यद् अव्यक्तं न्यूनाधिकम् असंगतम् ।
अव्याप्य् असारं संदिग्धं प्रतिपक्षं न लेखयेत् ॥
कात्यायनः [१७५, १८९–१९०] ।
यद् व्यस्तपदम् अव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥
[७२]
पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवेइकदेशे च संकरस् तदनन्तरम् ॥
न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥
“न चैकत्र विवादे” इत्यादि । मिथ्याकारणयोर् उभयत्र क्रिया भवेत् । न च तद् युक्तम्, उभयोः साध्याभावात् । प्राङ्न्यायकारणयोर् एकस्य क्रियाद्वयं विरुध्यते । एकसाध्यत्वात् । “एकत्र” वादिनि । याज्ञवल्क्यः [२.९–१०] ।
अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं न चान्येन नोक्तं विप्रकृतिं नयेत् ॥
कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च ।
“विप्रकृतिम्” स्वभावाद् अन्यत्त्वम् । बृहस्पतिः [३.७, ८; २.४; १.१७३]
पूर्वपक्षे यथार्थं तु न दद्याद् उत्तरं तु यः ।
प्रत्यर्थी दापनीयः स्यात् सामादिभिर् उपक्रमैः ॥
[७३]
प्रियपूर्वं वचः साम भेदो वस्तूपदर्शनम् ।
अर्थापकर्षणं दण्डस् ताडनं बन्धनं तथा ॥
उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितो ऽसौ दण्डम् अर्हति ॥
उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिवृद्धा बालाश् च विज्ञेयास् ते निरुत्तराः ॥
“निर्धूतः” उद्धूतापमानः । “निरुत्तराः” व्यवहारयोग्यत्वेनादाप्योत्तराः ।
कात्यायनः [२०६, १९३] ।
उभयोर् लिखिते वाक्ये प्रारब्धे कार्यनिश्चये ।
अनुक्तं तत्र यो ब्रूयात् तदर्थात् स तु हीयते ॥
पूर्वोत्तरे निविष्टे तु विचारे संप्रवेशिते ।
निर्णिक्तं तु तयोस् तत्र वचनं वादिनो भृगुः ॥
मोहाद् वा यदि वा शाठ्याद् यन् नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं चापि तद् ग्राह्यम् उभयोर् अपि ॥
श्रुतं च लिखितं चैव चिन्तितं तद्विशोधितम् ।
प्रथमे ऽहनि तस्यैव विवादविधिर् उच्यते ॥ [७४]
“तदर्थात्” अनुक्तार्थात् । “पूर्वोत्तरे” भाषायाम् उत्तरे च । “निर्णिक्तम्” शोधितम् । भाषालेखनसमये मोहात् शाठ्याद् वा यन् नोक्तं तद्विचारकाले ऽपि यदि केनचित् प्रकारेण व्यक्तं भवति तदा तद् अपि भाषान्तर्गतं कार्यम् । एवम् उत्तरे ऽपि बोध्यम् ।
इत्य् उत्तरस्वरूपम्
[७५]