०७ भाषा

अथ भाषा

तत्र बृहस्पतिः [३.२५] ।

अहंपूर्विकया याताव् अर्थिप्रथ्यर्थ्नौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडाम् अवेक्ष्य च ॥

मनुः [८.२४] ।

अर्थानर्थाव् उभौ बुध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥

कात्यायनः [१२०–१२१] ।

गृहीतग्रहणो न्यायो न प्रवर्त्यो महीभुजा ।
तस्य वा तत् समर्प्यं स्यात् स्थापयेद् वा परस्परम् ॥
तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् ।
तयोर् उक्ते सदस्यास्तु प्राड्विवाकस् ततः परम् ॥

“गृहीतग्रहण” इत्य् अत्र अर्थिना यत् स्वकार्यसिद्ध्यर्थं प्रत्यर्थिनो धनम् आहृतं तद्ग्रहणम् अभिप्रेतम् । [५९] नारदः [२.३८] ।

आज्ञालेखः पट्टकः शासनं वा
आधिः पत्रं विक्रयो वा क्रयो वा ।
राज्ञे कुर्यात् पूर्वम् आवेदनं यः
तस्य ज्ञेयः पूर्ववादो विधिज्ञैः ॥
यस्य वाभ्यधिका पीडा कार्यं वाभ्यधिकं भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥

आज्ञालेख इति । आज्ञालेखादिविषयं यो राज्ञे पूर्वम् आवेदनं करोति तस्य पूर्ववाद इत्य् अर्थः ।

बृहस्पतिः [२.३६, ४१, ४२] ।

चतुर्विधः पूर्वपक्षः प्रतिपक्षस् तथैव च ।
चतुर्धा निर्णयः प्रोक्तः कैश्चिद् अष्टविधः स्मृतः ॥
शङ्काभियोगस् तथ्यं वै लब्धे ऽर्थे ऽभ्यर्थनं तथा ।
वृत्ते वादे पुनर्न्यायः पक्षो ज्ञेयश् चतुर्विधः ॥

[६०] > भ्रान्तिः शङ्का समुद्दिष्टा तथ्यं दृष्टार्थदर्शनम् ।

लब्धे ऽर्थे ऽभ्यर्थनं मोहस् तथावृत्ते पुनः क्रिया ॥

याज्ञवल्क्यः [२.६] ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥

“प्रत्यर्थिनो ऽग्रतः” प्रत्यर्थिनः समक्षम् । कात्यायनः [१२४–१२८] ।

निवेश्य कालं वर्षं च मासं पक्षं तिथिं तथा ।
वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥
साध्यं प्रमाणं द्रव्यं च संख्या नाम तथात्मनः ।
राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥
क्रमात् पितॄणां नामानि पीडां चाहर्तृदायकौ ।
क्षमालिङ्गानि चान्यानि पक्षं संकल्प्य कीर्तयेत् ॥
देशः कालस् तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञा निवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्ववंशानुकीर्तनम् ।
स्थावरेषु विचारेषु दशैतानि निवेदयेत् ॥

[६१] कात्यायन-बृहस्पती ।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥
अल्पाक्षरः प्रभूतार्थो निःसंदिग्धस् त्व् अनाकुलः ।
मुक्तो विरोधकरणैर् विरोधिप्रतिषेधकः ॥
यदा त्व् एवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात् पक्षान्तसंबन्धं पूर्ववादी तदोत्तरम् ॥

कात्यायनः [१३८] ।

देशकालविहीनश् च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥

बृहस्पतिः [२.२०] ।

मृषायुक्तं क्रियाहीनम् असाराक्षरम् आकुलम् ।
पूर्वपक्षं लेखयतो वादे हानिः प्रजापते ॥

नारदः [२.७, १७, ७] ।

अन्यार्थम् अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यं हीनाधिकं भ्रष्टं भाषादोषा ह्य् उदाहृताः ॥
अन्याक्षरनिवेशेन नान्यार्थगमनेन च ।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥

[६२] > भाषाया उत्तरं यावत् प्रत्यर्थी नाभिलेखयेत् ।

अर्थी तु लेखयेत् तावद् यावद् वस्तु विवक्षितम् ॥

लेख्यम् इति विशेष्यपदम् । भ्रष्टम् पूर्वनिवेदितात् च्युतम् । बृहस्पतिः [२.२२] ॥

ऊनाधिकं पूर्वपक्षं तावद् वादी विशोधयेत् ।
न दद्याद् उत्तरं यावत् प्रत्यर्थी सभ्यसंनिधौ ॥

तथा [२.३४] ।

अभियोक्ताप्रगल्भत्वा वक्तुं नोत्सहते यदा ।
तस्य कालः प्रदातव्यः कार्यशक्त्यनुरूपतः ॥

नारदः [२.३] ।

स्वलेखनाद् वा लभते त्र्यहं सप्ताहम् एव वा ।

कात्यायनः [१३४] ।

मतिर् नोत्सहते यत्र विवादे वक्तुम् इच्छतोः ।
दातव्यस् तत्र कालः स्याद् अर्थिप्रतिअर्थिनोर् अपि ॥

[६३] तथा [१३१] ।

पूर्वपक्षं स्वपक्षोक्तं प्राड्विवाको ऽथ लेखयेत् ।
पाण्डुलेखेन फलके स्थितं पत्रे विशोधितम् ॥
अधिकांश् छातयेद् अर्थान् हीनांश् च प्रतिपूरयेत् ।
भूमौ निवेशेयेत् तावद् यावन् नार्थो ऽभिवर्णितः ॥

नारदः [२.१९, २०, ७] ।

निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।
तस्माद् अपोह्यम् अन्यार्थं वादिनोः प्रतिपादितम् ॥
वादिभ्याम् अभ्यनुज्ञातम् अशेषं फलके स्थितम् ।
ससाक्षिकं लिखेत् पत्रे प्रतिपत्तिं तु वादिनोः ॥
शोधयेत् पूर्वपादं तु यावन् नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥

इति हृदयधरात्मजभट्टलक्ष्मीधरविरचिते

व्यवहारकाण्डे भाषापादः ।

[६४]