अथ व्यवहारलक्षणम्
तत्र कात्यायनः [२५–२६] ।
प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥
वि नानार्थे ऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥
“प्रयत्नसाध्ये” क्षेत्रादिके । “विच्छिन्ने” भोगविरहिते । धर्माख्यो यो “न्यायविस्तरः” न्यायो विस्तीर्यते अस्मिन्न् इति न्यायविस्तरो धर्माधिकरणम् । तत्र यो वादः स व्यवहार इत्य् अर्थः । व्यवहारानुवृत्तौ नारदः (१.४; ८.१४, २६–२९, १५–२०)
सोत्तरो नोत्तरश् चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरो ऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥
स चतुष्पाच् चतुःस्थानश् चतुःसाधन एव सः ।
चतुर्हितश् चतुर्व्यापी चतुष्कारी च कीर्तितः ॥
[४१]
त्रियोनिर् द्व्यभियोगश् च द्विद्वारो द्विगतिस् तथा ।
अष्टाङ्गो ऽष्टादशपदः शतशाखस् तथैव च ॥
धर्मश् च व्यवहारश् च चरित्रं राजशासनम् ।
चतुष्पाद् व्यवहारो ऽयम् उत्तरः पूर्वसाधकः ॥
तत्र सत्ये स्थितो धर्मो व्यवहारश् च साक्षिषु ।
चरित्रं पुस्तकरणं राजाज्ञायां तु साक्षिषु ॥
सामाद्युपायसाध्यत्वाच् चतुःसाधन उच्यते ।
चतुर्णाम् अपि वर्णानां रक्षणात् स चतुर्हितः ॥
कर्तॄन् असौ साक्षिणश् च सभ्यान् राजानम् एव च ।
[व्याप्नोति पादशो यस्माच् चतुर्व्यापी ततः स्मृतः ॥
धर्मस्यार्थस्य यशसो लोकपक्तेस् तथैव च ।]
चतुर्णां करणाद् एषां चतुःकारी प्रकीर्तितः ॥
कामात् क्रोधाच् च लोभाच् च नित्यो यस्मात् प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयम् एतद् द्विधाकृतम् ॥
द्व्यभियोगश् च विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात् तत्त्वं होढाभिदर्शनात् ॥
[४२]
पक्षद्वयाभिसंबन्धाद् द्विद्वारः समुदाहृतः ।
पूर्ववादस् तयोः पक्षः प्रतिपक्षस् तदुत्तरः ॥
भूतच्छलानुसारित्वाद् द्विगतिः समुदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहतं छलम् ॥
राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यम् अग्निर् उदकम् अष्टाङ्गः समुदाहृतः ॥
ऋणादानं ह्य् उपनिधिः सम्भूयोत्थानम् एव च ।
दत्तस्य पुनर् आचानम् अशुश्रूषाभ्युपेत्य च ॥
वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥
समयस्यानपाकर्म विवादः क्षेत्रजस् तथा ।
स्त्रीपुंसयोश् च संबन्धो दायभागो ऽथ साहसम् ॥
वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यम् एव च ।
द्यूतं प्रकीर्णकं चैवेत्य् अष्टादश विधिः स्मृतः ॥
एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं स्मृतम् ।
क्रयाभेदो मनुष्याणां शतशाखो निगद्यते ॥
“विलेखा” लिखितम् । “शङ्का” सदसत्सर्सर्गात् आसन्नाश् चौरादयः, तत्संसर्गाच् चौरत्वादिसंभावना भवतीत्य् अर्थः । ह्ओष्हशब्देन व्यभिचरितं चिह्नम् उच्यते ।
[४३] मनुः [८.४–८] ।
तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविचारधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च ।
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥
एषु स्थानेषु भूयिष्ठं विवादे चरतां नृणाम् ।
धर्मशास्त्रं समाश्रित्य कुर्यात् कार्यविनिर्णयम् ॥
**इति भट्टहृदयधरात्मजविरचिते कृत्यकल्पतरौ **
व्यवहारकाण्डे व्यवहारलक्षणप्रकरणम् ।
[४४]
६ – अथ विचारविधिः
तत्र बृहस्पतिः [१.४५–४७, ११५, ६५]
दुर्गमध्ये गृहं कुर्याज् जलवृक्षान्वितं पृथक् ।
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत् सभाम् ॥
माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ।
प्रतिमालेख्यदेवैश् च युक्ताम् अग्न्यम्बुना तथा ॥
पूर्वाह्णे ताम् अधिष्ठाय वृद्धामात्यानुजीविभिः ।
पश्येत् पुराणधर्मार्थशास्त्राणि शृणुयात् तथा ॥
राजा कर्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥
कात्यायनः [६०, ६१, ३१] ।
सभास्थानेषु पूर्वाह्णे कायाणां निश्चयं नृपः ।
कुर्याच् छास्त्रप्रमाणेन मार्गेणामित्रकर्षणः ॥
दिवसस्याष्तमं भागं भुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥
[४५] > पूर्वपक्षश् चोत्तरं च प्रत्याकलितम् एव च ।
क्रियापादश् च तेनायं चतुष्पात् समुदाहृतः ॥
अष्टमभागो ऽत्र आद्यो ऽर्धप्रहरः । नारदः [२.३६] ।
आगमः प्रथमं कार्यो व्यवहारपदं ततः ।
चिकित्सा निर्णयश् चेति दर्शनं स्याच् चतुर्विधम् ॥
“आगमः” भाषोत्तरयोः श्रुत्वा लिखनम् । “व्यवहारपदम्” ऋणादानादिषु इदं पदम् इति व्यवस्थापनम् । “चिकित्सा” विचारणा । बृहस्पतिः [१.१६, २–३] ।
पूर्वपक्षः स्मृतः पादो द्वितीयश् चोत्तरस् तथा ।
क्रियापादस् तथा चान्यश् चतुर्थो निर्णयः स्मृतः ॥
मिथ्योक्तौ तु चतुष्पादः प्रत्यवस्कन्दने तथा ।
प्राङ्न्यायश् च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥
याज्ञवल्क्यः [२.५] ।
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥।
[४६] उशनाः ।
कार्यम् उद्दिश्य पीडां यः कश्चिद् राज्ञे निवेदयेत् ।
पदं तद् अष्टादशविधं विवादानां प्रकीर्तितम् ॥
बृहस्पतिः [१.१६९] ।
आगमानां विवदताम् असकृद् वादिनां नृपः ।
वादान् पश्येद् आत्मकृतान् न चाध्यक्षनिवेदितान् ॥
कात्यायनः [२७] ।
न राज्ञा तु विशिष्टेन धनलोभेन वा पुनः ।
स्वयं कार्याणि कुर्वीत नराणाम् अविवादिनाम् ॥
मनुः [८.४३] ।
नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेद् अर्थं कथंचन ॥
ऽन ग्रसेत" नोपेक्षेत । बृहस्पतिः [२.२६–२७; १.१७०]
अष्टादशपदो वादो विचार्यो विनिवेदितः ।
सन्त्य् अन्यानि पदान्य् अत्र तानि राजा विशेत् स्वयम् ॥
[४७]
षड्भागकरशुल्कं च समयातिक्रमो निधिः ।
वधः संग्रहणं स्तेयम् आसेधाज्ञाव्यतिक्रमः ॥
पीडितः स्वयम् आयातः शालीनो ऽर्थी यदा भवेत् ।
प्राड्विवाको ऽपि तं पृच्छेत् पुरुषो वा शनैः शनैः ॥
“अन्यानि” करशुल्कादीनि । “विशेत्” अवेक्षेत । “शालीनो” अप्रगल्भः । कात्यायनः (८६–८७) ।
काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतः ।
उशनाः ।
सशस्त्रो ऽनुत्तरीयश् च मुक्तकच्छः सहासनः ।
वामहस्तेन वा स्रग्वी वदन् दण्डम् अवाप्नुयात् ॥
गौतमः [१३.२७]- ऽप्राड्विवाकम् अध्याभवेत्" । प्राड्विवाकम् अनुवर्तेतेत्यर्थः । स्तेयविवादपदे मनुः [८.३१२-३१३] ।
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां तु कुर्वता हितम् आत्मनः ॥
[४८]
यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते ।
यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥
क्षिपताम्, गर्जयताम् । नारद-कात्यायनौ [ना २.१८; का १२९] ।
रागादिना यदैकेन कोपितः करणे वदेत् ।
तद् ओम् इति लिखेत् सर्वं वादिनः फलकादिषु ॥
बृहस्पतिः [१.१३४] ।
अर्थिनस् तद्वचः कार्यं वचः प्रत्यर्थिनस् तथा ।
परीक्ष्य पदम् आदद्याद् अन्यथा नरकं भवेत् ॥
“पदम्” ऋणादानादि । “आदद्यात्” निर्णयत्वेन स्वीकुर्यात् ।
पुनर् बृहस्पतिः [२.४३, ३२; ८.१३] ।
राज्ञा विवर्जिता यस् तु यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥
अन्यायेन पुरग्राममहाजनविरोधकः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥
अप्रसिद्धं सदोषं च निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षं राजा विवर्जयेत् ॥
[४९]
न केनचित् कृतो यस् तु सो ऽप्रसिद्ध उदाहृतः ।
अन्यार्थः स्वार्थहीनश् च सदोषः परिकीर्तितः ॥
अल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः।
कार्यबाधाविहीनस् तु विज्ञेयो निष्प्रयोजनः ॥
कुसीदाद्यैः पदैर् हीनो व्यवहारो निरर्थकः ।
वाक्पारुष्यादिभिश् चैव विज्ञेयो निष्प्रयोजनः ॥
ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः ।
असंभाव्यम् असाध्यं तम् पक्षम् आहुर् मनीषिणः ॥
यस्मिन्न् आवेदित पक्षे प्राड्विवाके ऽथ राजनि ।
पुरे राष्ट्रे विरोधः स्याद् विरुद्धः सो ऽभिधीयते ॥
अप्रसिद्धम् इति । यथा प्रतिपौर्णमास्याम् अमावास्यायां वा दक्षिणावृद्धिर् द्विगुणा प्रोक्ता पुराणे तद्विवाद इत्याद्यप्रसिद्धम् । कुसीदादिव्यवहाराश् चतुर्दशार्थविषयास् तैर् हीनो “निरर्थकः” । वाक्पारुष्यादिभिर् हिंसात्मकैः हीनो “निष्प्रयोजनः” । कात्यायनः [१३६–१३७]
पुरराष्ट्रविरुद्धश् च यश् च राजविवर्जितः ।
अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ॥
बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥
[५०] “अनेकपदसंकीर्णः” नानाविवादप्रयुक्तः पक्षो युगपन् न सिध्यति, एवम् अनेको ऽपि पक्षो युगपन् न सिध्यति । न तु नानापक्षनिर्देशात् तस्य हानिः स्यात् । किं तु तद् अपि राजा तत्त्वप्रतिपन्नं लेखयेत् क्रमशो निरूपयितुम् । यत्र तु नानाविवादपदानि एकहतुसाध्यानि भवन्ति तत्र युगपद् एव निर्णयः ।
बृहस्पतिः कात्यायनश् च, पुनर् यमः ।
न्यायं वा नेच्छते कर्तुम् अन्यायं वा करोति यः ।
न लेखयति यस् त्व् एनं तस्य पक्षो न सिध्यति ॥
विरुद्धाश् चाविरुद्धाश् च द्वाव् अप्य् अर्थौ निवेशितौ ।
एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस् त्यजेत् ॥
बृहस्पति-नारदौ [बृ १.१३५] ।
एकस्य बहुभिः सार्धं स्त्रीभिः प्रेष्यकरैस् तथा ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥
एकस्य बहुभिः सार्धम् इति — एकस्य बहुभिः सह नानार्थविषयो विवादो युगपन् न विचारणीयः । एको विषयस् तु विचारणीय एव । स्त्रीभिर् इति भर्त्रादिपरवशाभिः । “प्रेष्यकरैः” स्वामिपरतन्त्रैः तेनानुनुज्ञातैः । बृहस्पतिः [१.१२४, १२५]
गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।
एतेषां समवेतानां व्यवहारो न विद्यते ॥
[५१]
एवं परीक्षितं सभ्यैः पूर्वपक्षं तु लेखयेत् ।
अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥
व्यवहारो न विद्यत इति । गुरुशिष्यादीनां विवादो भाषोत्तरश्रवणपूर्वकं राज्ञा न विचारणीयः । किं तु येन केनापि प्रकारेण तम् अर्थं स्वयम् अवगम्य यथावत् व्यवस्थाप्य विवादम् उपशमयेद् इत्य् अर्थः । नारदः [१२.८९] ।
ईर्ष्यासूयासमुत्थे तु संरम्भे कामहेतुके ।
दम्पती विवदेयातां स्वज्ञातिषु न राजनि ॥
ज्ञातिष्व् एव स्वविवादम् आवेदयेताम् इत्य् अर्थः । कात्यायनः [८७, ८८) ।
एवं पृष्टः स यद् ब्रूयात् ससभ्यैर् ब्राह्मणैः सह ।
विचार्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ॥
मुद्रां वा निक्षिपेत् तत्र पुरुषं वा समादिशेत् ।
“न्याय्यम्” न्यायार्हम् । बृहस्पतिः [१.१४४] ।
वक्तव्ये ऽर्थे न तिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥
[५२]
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधस् तम् आसिद्धो न लङ्घयेत् ॥
“वक्तव्ये” सन्दिग्धे । “न तिष्ठन्तम्” निर्णयार्थम् अपर्वर्तमानम् । न केवलं न पर्वर्तते, तत एव “उत्क्रामन्तं च” यदि “तद्वचः” तदा “आसेधयेत्” निरुन्ध्यात् । तथा “यावद् आह्वानदर्शनम्” राज्ञा यावद् आहूयत इत्य् अर्थः । “स्थानासेधः” – नस्मात् स्थानाच् चलितव्यम् अदत्वा, यदि चलसि तदा तवैव तावान् दण्डो भवति । एवं “कालकृतः – अदत्वा यदि भोक्ष्यसे तदा तवैव तावान् दण्ड इत्यादिरूपः । “प्रवासात्” – यद्य् अदत्वा ग्रामं गच्छति तदायं दण्डस् तवेत्यादिरूपः । “कर्मणः” – यद्य अदत्वा अध्यननादि करोषि तदायं ते दण्ड इत्यादिरूपः । कात्यायनः [१०३–१०८, ११०) ।
उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचमानाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥
आवेद्य तु नृपे कार्यम् असन्दिग्धे प्रतिश्रुते ।
तदासेधं नियुञ्जीत यावद् आह्वानदर्शनम् ॥
क्रियार्थिनावरुद्धः सन्न् आसेधं चेद् विलङ्गयेत् ।
[५३]
स्वहस्तेनापि रोद्धव्यो यद्य् असौ न विभावयेत् ॥
आसेधयोग्य आसिद्ध उत्क्रामन् दण्डम् अर्हति ।
आसेधयंस् त्व् अनासेध्यं राज्ञा शास्य इति स्थितिः ॥
“असन्दिग्धे प्रतिश्रुते” निवेदिते कार्ये राज्ञा निश्चिते, विचार्यत्वेन प्रतिज्ञात इत्य् अर्थः । “तदासेधः” तस्यासेधः । स्वहस्तेनापीति । यदासौ अर्थिनो विवादनिमित्तां क्रियां लोके विभावयितुं न शक्नुयात् तदा स्वहस्तव्यापारेणापि उपारुन्ध्याद् इत्य् अर्थः ।
नारदः [१.४९] ।
नदीसंतारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥
कात्यायनः [१०७, १०६] ।
वृक्षपर्वतम् आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥
यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः ।
आसेधयेद् अनासेधैः स दण्ड्यो न त्व् अतिक्रमी ॥
[५४]
संभूते ऽर्थे य आसिद्धः प्रत्यासेधयते स तम् ।
शास्यो भवेत् तदा दण्ड्यो ह्य् असंभूते स एव तु ॥
आसेधयेतां यदि वाइ सन्दिग्धे ऽर्थे परस्परम् ।
तयोर् अतिक्रमे धर्म्यं तत्र दण्डं प्रदापयेत् ॥
“अनासेधैः” आसेधानर्हैर् उच्छ्वासादिभिः । “संभूते” यथाभूते ।
बृहस्पतिः [पृ। २२, २६, २३] ।
शास्त्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तोद्युक्तो ऽतिवृद्धश् च नृपकार्योद्यतो व्रती ॥
आसन्नसैनिकः संख्ये कर्षको वापसंग्रहे ।
विषमस्थाश् च नासेध्याः स्त्रीसनाथास् तथैव च ॥
“संख्ये” संग्रामे । “वापसंग्रहे” अनादिसस्यसंबन्धे ।
नारदः [१.५२–५४] ।
निवेष्टुकामो रोगर्तो यियिक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश् चापि तत्कालेनायुधीयाश् च विग्रहे ॥
अप्राप्तव्यवहाराश् च दूतो दानोद्यतो व्रति ।
[५५]
विषमस्थाश् च नासेध्याः न चैतान् आह्वयेन् नृपः ॥
कात्यायनः [१११] ।
अभियुक्तश् च रुद्धश् च तिष्ठेद् यश् च नृपाज्ञया ।
न तस्यान्येन कर्तव्यम् अभियुक्तं विदुर् बुधाः ॥
व्यासः ।
योगी विवक्षुर् उन्मत्तो धर्मार्थि व्यसनी व्रती ।
दानोन्मुखो नाभियोज्यो नासेध्यो नाह्वयेच् च तम् ॥
नासेध्या इत्य् अनुवृत्तौ कात्यायनः [१०९, ११०, ९७] ।
प्रतिष्ठाभिप्रयातश् च कृतकालश् च नान्तरा ।
उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा ॥
आरम्भात् संग्रहं यावत् तत् कालं न विवादयेत् ।
अकल्यबालस्थविरविषमस्थक्रियाकुलान् ॥
कार्यातिपातिव्यसनिनृपकार्योत्स्वाकुलान् ।
मत्तोन्मत्तप्रमत्तार्तभृत्यान् नाह्वाययेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां नाज्ञातिप्रभुकाः स्त्रियः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुलाः याश् च पतितास् तासाम् आह्वानम् अर्हति ॥
[५६]
ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वानयेद् राजा गुरुकार्येष्व् अकोपयन् ॥
कालं देशं च विज्ञाय कार्याणां च बलाबलम् ।
अकल्यादीन् अपि शनैः शनैर् आनाययेन् नृपः ॥
“अकल्यो” रोगी । “कार्यातिपाती” यस्य कार्यम् आसेधे सति नश्यति । “तदधीनकुटिम्बिन्यः” गोपालशौण्डिकादिस्त्रियः । बृहस्पतिः [१.१३६] ।
वणिग् विक्रीतपण्यस् तु सस्ये जाते कृषीवलः ।
शस्त्रोद्यताद्यास् तु तथा दापनीयाः कृतक्रियाः ॥
कात्यायनः [१००–१०१] ।
आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् ।
तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥
हीने कर्मणि पञ्चाशन् मध्यमे ऽपि शतावरः ।
गुरुकार्येषु दण्डः स्यान् नित्यं पञ्चशतावरः ॥
व्यासः ।
परानिकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनर् आह्वानं दण्डं न परिकल्पयेत् ॥
[५७] कात्यायनः [११२–११३] ।
एकाहद्व्याहाद्यपेक्ष्यं देशकालाद्यपेक्षतः ।
दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ॥
देशकालवयःशक्त्याद्यपेक्ष्यं भोजनं स्मृतम् ।
आकारकस्य सर्वत्र इति तन्त्रविदो विदुः ॥
याज्ञवल्क्यः [२.१०] ।
उभयोः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ।
कात्यायनः [११७] ।
अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः ।
संरक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥
[५८]