०४ सभ्योपदेशः

अथ सभ्योपदेशः

तत्र बृहस्पतिः [१.९६–९७]

अज्ञानतिमिरोपेतान् संदेहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ।
तस्मात् संशयमूढानां प्रकर्तव्यो विनिर्णयः ॥

नारदः [३.१–२] ।

नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ।
नियुक्तेन तु वक्तव्यम् अपक्षपतितं वचः ॥
नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति ।
दैवीं वाचं स वदति यः शास्त्राण्य् उपजीवति ॥

“दैवीम्” शास्त्रीयां सत्याम् इति यावत् । [३४] बृहस्पतिः [१.१०८] ।

नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति ।
यत् तेन सदसि प्रोक्तं कर्तव्यं नात्र संशयः ॥

नारद-हारीतौ [ना। ३.१४]

अन्धो मत्स्यान् इवाश्नाति निरपेक्षः सकण्टकान् ।
परोक्षम् अर्थवैकल्याद् भाषते यः सभां गतः ॥

“अर्थवैकल्यात्” अर्थतत्त्वानवगमात् । बृहस्पतिः [१.९८, ५४]

लोभद्वेषादिकं त्यक्त्वा यः कुर्यात् कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥
सत्यं देवाः समासेन मनुष्यास् त्व् अनृतं विदुः ।
इहैव तस्य दैवत्वं यस्य सत्ये स्थिता मतिः ॥

नारदः [३.७]

शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।
शुद्धिश् च तेषां धर्माद् धि धर्मम् एव वदेत् ततः ॥

कात्यायनः ।

अधर्मज्ञान् यदा राजा नियुञ्जीत विवादिनाम् ।
विज्ञाप्य नृपतिं सभ्यस् तदा सम्यङ् निवर्तयेत् ॥
सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्याद् असत्यस् ततो नृपः ॥

[३५]

न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं तत् प्रियं तत्र न सभ्यः किल्बिषी ततः ॥
अधर्मतः प्रवृत्तं तु नोपेक्षन्ते सभासदः ।
उपेक्षमाणास् ते सर्वे नरकं यान्त्य् अधोमुखाः ॥
अन्यायतो यियासन्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥

“अधर्मज्ञान्” अधर्मानुवर्तनीयाज्ञान् । मनुः [८.१९, १३]

राजा भवत्य् अनेनास् तु मुच्यन्ते तु सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
सभ्यायां न प्रेवेष्तव्यं वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥

नारदः [३.३] ।

युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद् द्वेषकिल्बिषे ।

[३६]

ब्रुवाणस् त्व् अन्यथा सभ्यस् तद् एवोभयम् आप्नुयात् ॥

कात्यायनः ।

सम्यग् विज्ञाय सद्भावं गूढं कार्यस्य यत्र वै ।
निर्णयं त्व् अन्यथा कुर्युर् न यथाविहितं तु तत् ॥
यत्रानेन विधानेन क्रियते कार्यनिर्णयः ।
तत्र सत्यं हतं सभ्यैर् अनृतैर् न दुरात्मभिः ॥
न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् ।
तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥

बृहस्पतिः ।

असत्यनिर्णये साक्षिसभ्याध्यक्षमहीभुजाम् ।
अप्रत्ययोदयश् च स्यान् नरके पतनं तथा ॥

“अप्रत्ययः” अविश्वासः । मनु-नारद-हारीत-बौधायनाश् च प्रथमे ।

पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्थते ।
शल्यं नास्य निकृन्तन्ति विद्धास् तत्र सभासदः ॥

[३७]

यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥

मनुः [८.१३, १७, १५] ।

वृषो हि भगवान् दर्मस् तस्य यः कुरुते त्व् अलम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥
एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।
शरीरेण समं नाशं सर्वम् अन्यत् तु गच्छति ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥

नारदः [३.११, १७] ।

ये तु सभ्याः सभां प्राप्य तूष्णीं ध्यायन्त आसते ।
यथाप्राप्तं न चेद् ब्रूयुः सर्वे ते ऽनृतवादिनः ॥

[३८]

यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यः स्याद् अतो ऽन्यथा ॥

पुनर् नारदः [३.३८] ।

न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति ॥

कात्यायनः [८०, ७९, ८१] ।

कार्यस्य निर्णयं सम्यक् कृत्वा सभ्यस् ततो वदेत् ।
अन्यथा नैव कर्तव्यं वक्ता द्विगुणदण्डभाक् ॥
स्नेहाद् अज्ञानतो वापि मोहाद् वा लोभतो ऽपि वा ।
यत्र सभ्यो ऽन्यथावादी दण्ड्यः सभ्यः स्मृतो हि सः ॥
सभादोषात् तु यन् नष्टं देयं सभ्येन तत् तदा ।
कार्यं तु कार्यिणाम् एवं निश्चितं न विचालयेत् ॥

[३९] बृहस्पतिः [१.१०८] ।

अन्यायवादिनः सभ्यास् तथैवोत्कोचजीविनः ।
विश्वस्तवञ्चकाश् चैव निर्वास्याः सर्व एव ते ॥

विष्णुः [५.१७९–८०]- ऽकूटसाक्षिणां सर्वस्वापहारः कार्यः । उत्कोचजीविनां सभ्यानाम्" ।

कात्यायनः [७०] ।

अनिवृत्ते तु यद्य् अर्थे संभाषेत रहो ऽर्थिनम् ।
प्राड्विवाको ऽथ दण्ड्यः स्यात् सभ्यश् चैव न संशयः ॥

बृहस्पतिः [१.७६] ।

प्राड्विवाकः सदस्यानाम् उपजीव्य मतानि तु ।
न युक्तियोगाद् यो ऽर्थेषु निर्णयेत् तु स दण्डभाक् ॥

इति भट्टहृदयधरात्मजमहासन्धिव्ग्रहिक-भट्टश्रीमल्लक्ष्मीधरविरचिते कृत्यकल्पतरौ व्यवहारकाण्डे व्यवहारप्रकरणम् ॥

[४०]