अथ सभा
तत्र बृहस्पतिः ।
प्रतिष्ठिताप्रतिष्ठिता मुद्रिता साक्षिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश् चैव तथाविधाः ॥
प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिताध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥
नृपाधिकृतसभ्याश् च स्मृतिर् गणकलेखकौ ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥
एषां मूर्धा नृपो ऽङ्गानां मुखं चाधिकृतः कृतः ।
बाहू सभ्याः स्मृतिर् हस्तौ जङ्घे गणकलेखकौ ॥
हेमाग्न्यम्बु दृशौ हृच् च पादौ स्वपुरुषस् तथा ।
दशानाम् अपि चैतेषां कर्म प्रोक्तं पृथक् पृथक् ॥
२७]
वक्ताध्यक्षो नृपः शास्ता सभ्याः कार्यपरीक्षकाः ।
स्मृतिर् विनिर्णयं ब्रूते जयदानं दमं तथा ॥
शपथार्थौ हिरण्याग्नी अम्बु तृषितक्षुब्धयोः ।
गणको गणयेद् अर्थं लिखेन् न्यायं च लेखकः ॥
प्रत्यर्थिसभ्यानयनं साक्षिणां च स्वपूरुषः ।
कुर्याद् अलग्नकौ रक्षेद् यो ऽर्थिप्रथ्यर्थिनौ सदा ॥
एतद् दशाङ्गं करणं यस्यामध्यास्य पार्थिवः ।
न्यायान् पश्येत् कृतपतिः सा सभाध्वरसंमिता ॥
लोकवेदाङ्गधमज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्नोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥
साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।
अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीबुजा ॥
मनुः [८.११] ।
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।
राज्ञश् च प्रकृतो विद्वान् ब्राह्मणास् तां सभां विदुः ॥
नारदः [३.४–५] ।
राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुपरीक्षितान् ।
व्यवहारधुरं वोडुं ये शक्ताः सद्गवा इव ॥
[२८]
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।
सभाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥
विष्णुः [३.७४]- ऽजन्मकर्मश्रुतोपेताश् च [राज्ञा सभासदः] कार्याः, रिपौ मित्रे च ये समाः कामक्रोधभयलोभादिभिर् उपायैः कार्यार्थिभिर् अनाहार्याः" । “अनाहार्याः” विवादिभिर् वशीकर्तुम् अशक्याः । कात्यायनः [७१, ६६–६७] ।
अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः ।
सर्वशास्त्रप्रवीणाश् च सभ्याः कार्या नृपैर् द्विजाः ॥
एकं शास्त्रम् अधीयानो न वियात् कार्यनिश्चयम् ।
तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥
यत्र विप्रो न विद्वान् स्यात् क्षत्रियं तत्र नियोजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥
अतो ऽन्यैर् यत् कृतं कार्यम् अन्यायेन कृतं तु तत् ।
नियुक्तैर् अपि विज्ञेयं दैवाद् यद्य् अपि शास्त्रतः ॥ [२९]
“बह्वागमह्” बहुशास्त्रज्ञः । “अतो ऽन्यैर्” इत्यादि । उक्तलक्षणरहितैर् अन्यैर् नियुक्तैर् अपि । यदि दैवात् शास्त्रार्थ एव निर्णीतस् तथापि अन्याय एवासौ अवगन्तव्य इत्य् अर्थः । मनुः [८.२०–२१] ।
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथंचन ॥
यस्य राज्ञश् च कुरुते शूद्रो धर्मविवेचनम् ।
तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥
व्यासः ।
द्विजान् विहाय यः पश्येत् कार्याणि वृषलैः सह ।
तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश् च नश्यति ॥
बृहस्पतिः [१.६४, ८१–८२] ।
देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥
शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥
आकारणे रक्षणे च साक्ष्यर्थिप्रतिवादिनाम् ।
[३०]
सभ्याधीनः सत्यवादी कर्तव्यस् तु स्वपूरुषः ॥
कात्यायनः [५८] ।
सभ्यानां ये विधेयाः स्युर् युक्तास् ते राजपूरुषाः ।
गणको लेखकश् चैव सर्वांस् तान् विनिवेशयेत् ॥
कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥
बृहस्पतिः ।
ये त्व् अरण्यचरास् तेषाम् अरण्ये करणं भवेत् ।
सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ॥
राज्ञा ये विदिताः सम्यक् कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥
कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः ।
एषाम् अग्रे निश्चितस्य प्रतिष्ठा तूत्तरोत्तरा ॥
विचार्य श्रेणिभिः कार्यं कुलैर् यन् न विनिश्चितम् ।
गणैश् च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ॥
कुलादिभ्यो ऽधिकाः सभ्यास् तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः ।
सर्वेषाम् अधिको राजा धर्म्यं यत्नेन निश्चितम् ॥
[३१]
उत्तमाधममध्यानां विवादानां विचारणात् ।
उपर्य् उपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥
“करणम्” सभा । “साहसन्यायवर्ज्यानि” साहविषयन्यायवर्ज्यानि । “नियुक्तकाः” अत्र सभ्याः । अत्र कात्यायनः ।
कुलैश् च यत् कृतं कार्यं विचार्यं तद् यथोत्तरम् ।
असंसुष्टस्य कर्तव्यं यावद् राज्ञा कृतं विदुः ॥
अनिर्दिष्टाश् च ये कुर्युर् व्यवहारविनिश्चयम् ।
राजवृत्तिप्रवृत्तास् ते तेषां दण्डं प्रकल्पयेत् ॥
लिङ्गिनः श्रेणिपूगाश् च वणिग्व्रातास् तथापरे ।
स्वधर्मेणैव कार्याणां कुर्युस् ते निश्चयं सदा ॥
वणिक्शिल्पिप्रयोगेषु कृषिर् अङ्गोपजीविषु ।
अशक्यो निर्णयो ह्य् अत्र तज्ज्ञैर् एव तु कारयेत् ॥
बृहस्पतिः [१.८४] ।
कीनाशाः कारुकाः शिल्पिकुसीदिश्रेणिनर्तकाः ।
लिङ्गिनस् तस्कराः कुर्युः स्वेन धर्मेण निर्णयम् ॥ [३२]
“कीनाशाः” कुषीवलाः । “शिल्पिनः” चित्रकाराद्याः । बृहस्पति-कात्यायनौ ।
तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ॥
मनुः [८.३९०–९१] ।
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥
यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥
“आश्रमेषु” ब्रह्मचार्यादिषु । “न विब्रूयात्” विशिष्य न ब्रूयात् जयपराजयावधारणं न कुर्याद् इत्य् अर्थः । “सान्त्वेन” प्रियवचनेन । “प्रशमय्य” कोपादिकं शमयित्वा ।
कात्यायनः [८४, प्रथमे] ।
सम्यग्विज्ञानसंपन्नं नोपदेशं प्रवर्तयेत् ।
उत्कृष्टजातिशीलानां शुद्धाचार्यतपस्विनाम् ॥
नियुक्तो व्यवहारेण लोको लोकानुसारतः ।
पार्थिवश् च गणांश् चैव धर्मेणैव नयेद् भृगुः ॥
[३३]