०२ प्राड्विवाकः

अथ प्राड्विवाकः

तत्र कात्यायनः [६३–६४] ।

यदा कार्यवशाद् राजा न पश्येत् कार्यनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥
दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥

मनुः ।

यदा स्वयं न कुर्यात् तु नृपतिर् कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्भवम् ।
स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥
सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव च ॥ [२५]

बृहस्पतिः [१.६५, ६९] ।

राजा कार्याणि संपश्येत् प्राड्विवाको ऽथ वा द्विजः ।
न्यायाङ्गान्य् अग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राङ् वदति प्राड्विवाकस् ततस् तु सः ॥

व्यासः ।

विवादानुमतं पृष्ट्वा ससभ्यस् तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥

नारदहारीतौ ।

यथा शल्यं भिषक् कायाद् उद्धरेद् यन्त्रशक्तितः ।
प्राड्विवाकस् तथा शल्यम् उद्धरेद् व्यवहारतः ॥

गौतमः [१३.३१]- ऽसर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनम्" ।

[२६]